Skandapurāṇa Adhyāya 112: R and A recensions, sub-chapter 3 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SPra112.3.0010: सनत्कुमार उवाच| SPra112.3.0011: ततः शुभावती नाम मेरुकन्या सुमध्यमा| SPra112.3.0012: उवाच हिमवत्पुत्रीं दर्शयन्ती शुभं वनम्|| १|| SPra112.3.0020: शुभावत्युवाच| SPra112.3.0021: इदं पर्वतकन्ये त्वं पश्य केलिकलाशुभम्| SPra112.3.0022: वनं सर्वर्तुसंपन्नं यथा विद्वत्सुभाषितम्|| २|| SPra112.3.0031: अयं प्रपातः सुमहान्पर्वतस्यास्य शोभते| SPra112.3.0032: विदुषामर्थकृत्येषु यथा युक्तं प्रभाषितम्|| ३|| SPra112.3.0041: एष स्वर्णोपलो भाति गिरेः शिखर उत्तमः| SPra112.3.0042: दग्नोते यथा लक्षणविद्वांसं युक्तो यश्चेन्द्र इत्यपि†|| ४|| SPra112.3.0051: अयं च मणिमान्नित्यं शिलाग्रः प्रतिभास्वरः| SPra112.3.0052: भाति उद्यन्निवादित्यः उदयस्थो महायुगे|| ५|| SPra112.3.0061: अयं वैदूर्यशिखर इन्द्रनीलतलोपलः| SPra112.3.0062: भाति शर्वाणि दग्नोते शुभ्राणि स्थलेश्वर† इवोपरि|| ६|| SPra112.3.0071: अयं गजोत्तमो मत्तः करेणुभिरपावृतः| SPra112.3.0072: अप्सरोगणमध्यस्थो देवराडिव पर्वते|| ७|| SPra112.3.0081: अयं दग्नोतेस् गजो गजेनैव†स् सुमहान्पर्वतोत्तमः| SPra112.3.0082: इतो यान्तो दिवि दग्नोतेस् चमां†स् दिग्गजे च यथा सुरः|| ८|| SPra112.3.0091: पश्यामश्चैव लप्स्यामः प्रदीपमिव संस्थितम्| SPra112.3.0092: अशोकं हिमवत्पुत्रि पल्लवैरुपशोभितम्|| ९|| SPra112.3.0101: बालारुणनिभो ह्येष वायुनाभिपरिप्लुतः| SPra112.3.0102: कृत्वात्राञ्जलयः सुभ्रु पल्लवैः शिरसा नतः|| १०|| SPra112.3.0111: अहो ऽस्य रूपं पश्येमं वनराजियुतं शुभे| SPra112.3.0112: यौवराज्ये ऽभिषिक्तं वै जयन्तमिव चामरैः|| ११|| SPra112.3.0121: पादपैरेव शर्वाणि पश्यैनं करपल्लवैः| SPra112.3.0122: मातुः समीपे नृत्यन्तं शिशुं प्रियमिवौरसम्|| १२|| SPra112.3.0131: मन्ये प्रियावासमिमं देवताया वनस्य ह| SPra112.3.0132: अतीव दीप्यते शोभा नेदृशीं दृष्टवत्यहम्|| १३|| SPra112.3.0140: सनत्कुमार उवाच| SPra112.3.0141: तस्यास्तद्वचनं श्रुत्वा शुभावत्या गिरेः सुता| SPra112.3.0142: निरीक्ष्य तं तरुं सम्यग्घिमवत्तनयाव्यया| SPra112.3.0143: मनसा चिन्तयामास पुत्रो ऽयं मम पादपः|| १४|| SPra112.3.0151: आगते पुनरेवेह देवदेवे अधिष्ठिते| SPra112.3.0152: इमं तेनाभ्यनुज्ञाता ग्रहीष्ये पादपं सुतम्|| १५|| SPra112.3.0161: ममैवायमपुत्राया भविता पादपोत्तमः| SPra112.3.0162: पुत्रः पुत्रवतां श्रेष्ठः पुत्रशोकविनाशनः|| १६|| SPra112.3.0170: सनत्कुमार उवाच| SPra112.3.0171: सा विनिश्चित्य तु तदा पादपं प्रति शोभना| SPra112.3.0172: अन्यं देशं परिक्रम्य इमं तत्राभिपश्यत|| १७|| SPra112.3.0181: शिखरं पर्वतेन्द्रस्य अपतद्व्यसनं विना| SPra112.3.0182: पादपाश्च विना वातमुन्मूलाः संबभूविरे|| १८|| SPra112.3.0191: उल्काः पतन्ति चाकाशाद्ववौ वायुरशोभनः| SPra112.3.0192: अक्षि सद्यो ऽस्फुरद्देव्या दक्षिणं कालिनन्दन|| १९|| SPra112.3.0201: तान्दृष्ट्वा विस्मितं देवी शैलादिमिदमब्रवीत्| SPra112.3.0202: सख्यश्च सर्वाः कालेय इदं वचनकोविदा|| २०|| SPra112.3.0210: देव्युवाच| SPra112.3.0211: प्रमत्तो भाति शैलश्च सर्वैस्तैर्वृक्षसंयुतः| SPra112.3.0212: भयं महदिदं मन्ये नैतदाकस्मिकं स्मृतम्|| २१|| SPra112.3.0221: नाद्यानिमित्तमुत्पाता भवन्त्येते दुरासदाः| SPra112.3.0222: तथा कुरु यथा मे नो भयं यच्छन्त्यशोभनाः|| २२|| SPra112.3.0230: नन्द्युवाच| SPra112.3.0231: शिवा ह्येते महावीरा लोकपालोपमा इति| SPra112.3.0232: कुतो भयं तव शुभे यस्या भर्ता वृषध्वजः|| २३|| SPra112.3.0241: यतः सर्वं जगत् दग्नोतेस् सर्वं दानवानामपश्यत†स् | SPra112.3.0242: कुतो भयं भवानि त्वं मातासि त्रिदिवौकसाम्|| २४|| SPra112.3.0250: सनत्कुमार उवाच| SPra112.3.0251: तस्यैवंवदतो व्यास देवीं विश्वस्य मातरम्| SPra112.3.0252: अन्धको नाम दैत्येन्द्रः पातालान्मन्दरं ययौ|| २५|| SPra112.3.0261: स दैत्यानां शतेनैव वरिष्ठानां महासुरः| SPra112.3.0262: आगतो मन्दरं द्रष्टुं यथेन्द्रो नन्दनं वनम्|| २६|| SPra112.3.0271: प्रह्लादश्चानुह्लादश्च शिबिर्बाष्कलिरेव च| SPra112.3.0272: कुण्डस्तुकुण्डो वातापी बलिर्बाणो विरोचनः|| २७|| SPra112.3.0281: इल्वलो नमुचिर्व्यंसो विप्रचित्तिर्महासुरः| SPra112.3.0282: सुन्दो निसुन्दो नरको धेनुको ऽरिष्ट एव च|| २८|| SPra112.3.0291: मुरः कार्तस्वनश्चैव हस्ती दुर्योधनो मयः| SPra112.3.0292: तारकस्तारकाक्षश्च विद्युन्माली प्रभाकरः|| २९|| SPra112.3.0301: हालाहलश्च कुम्भश्च शम्बरः कालशम्बरः| SPra112.3.0302: धुन्धुस्तथेन्द्रदमनो हयग्रीवः शतोदरः|| ३०|| SPra112.3.0311: मेघनादः सिंहनादो दुन्दुभिः शतदुन्दुभिः| SPra112.3.0312: कालनेमिर्बको दण्डो विपाकः पाक एव च|| ३१|| SPra112.3.0321: वृषपर्वा शतावर्तः पुलोमा शरभस्तथा| SPra112.3.0322: वलो गगनमूर्धा च सूचीलोमा महायशाः|| ३२|| SPra112.3.0331: असिलोमा प्रलम्बश्च शम्भुर्देवान्तकस्तथा| SPra112.3.0332: महिषो भीमसेनश्च दग्नोते वायुरादित्य एव च†|| ३३|| SPra112.3.0341: आटिर्बकश्च वातश्च कुण्डलो मुण्ड एव च| SPra112.3.0342: साल्वो द्रुमश्च जम्भश्च महाकेतुश्च कामपः|| ३४|| SPra112.3.0351: कपाली शोषणश्चैव हंसः दग्नोते विश्वजयस्तथा| SPra112.3.0352: अर्धमत्तश्च वायुश्च कलिनः फल एव च| SPra112.3.0353: उल्कको बन्धकश्चैव†स् मधुः कैटभ एव च|| ३५|| SPra112.3.0361: अन्ये महाबलाः शूरा असुरा देवकण्टकाः| SPra112.3.0362: अन्धकानुचरा व्यास मन्दरं समुपागताः|| ३६|| SPra112.3.0371: ते शस्त्रवन्तो जितकाशिनश्च महाबलाधर्मपथस्थिताश्च| SPra112.3.0372: सर्वे च शूरा अनिवर्तिनश्च सहान्धका मन्दरगा बभूवुः|| ३७|| SPra112.3.0380: सनत्कुमार उवाच| SPra112.3.0381: तद्गजानामिव कुलं मत्तानां कालिनन्दन| SPra112.3.0382: वर्षतामिव मेघानां सविषाणां सरीसृपाम्|| ३८|| SPra112.3.0391: दर्पितानां वराहाणां बहूनामिव चोल्बणम्| SPra112.3.0392: मन्दरे दानवकुलं तथा तत्प्रचचार ह|| ३९|| SPra112.3.0401: सो ऽन्धको विचरंस्तत्र सखीभिः सह पार्वतीम्| SPra112.3.0402: अपश्यद्दानवः क्रूरः श्वपाको ब्राह्मणीमिव|| ४०|| SPra112.3.0411: स पश्यन्नेव कालेय हिरण्याक्षसुतस्तदा| SPra112.3.0412: आविष्टः कलिना योगाद्दानवानामपश्यताम्|| ४१|| SPra112.3.0421: नियत्याथ कृतान्तेन मृत्युना मदनेन च| SPra112.3.0422: कोपेनाथ दुरात्मासौ काले प्राप्ते सुरेतरः|| ४२|| SPra112.3.0431: अध्यासितस्तदा तैस्तु सर्वैर्लोकवशंकरैः| SPra112.3.0432: लोकधात्रीं प्रति शुभामिदं वचनमब्रवीत्|| ४३|| SPra112.3.0440: अन्धक उवाच| SPra112.3.0441: केयं सुमध्यमा तन्वी रूपेणाप्रतिमा शुभा| SPra112.3.0442: नेदृशी दृष्टपूर्वा मे कदाचिदपि दानवाः| SPra112.3.0443: दिवि वा भुवि वा सत्यं पश्यतैनां सुमध्यमाम्|| ४४|| SPra112.3.0451: इयं यदि न मे भार्या कस्याहं पतिरीश्वरः| SPra112.3.0452: को वाहं किं च जीवामि सत्यमेतद्वचो मम|| ४५|| SPra112.3.0461: यस्येयं युवती भार्या चारुचित्रायतेक्षणा| SPra112.3.0462: स्वर्गवासेन किं तस्य सुभगस्य महात्मनः| SPra112.3.0463: मिथ्याराज्यमिदं राज्यं यस्येयं मे न कामिनी|| ४६|| SPra112.3.0471: बहूनि स्त्रीसहस्राणि मम सन्ति शुभानि च| SPra112.3.0472: तानि सर्वाणि दासीत्वे अस्यास्तुल्यानि दानवाः|| ४७|| SPra112.3.0480: सनत्कुमार उवाच| SPra112.3.0481: तस्य तद्वचनं श्रुत्वा हिरण्यकशिपोः सुतः| SPra112.3.0482: उवाचान्धकमाश्लिष्य बहुचित्रं च कालिज|| ४८|| SPra112.3.0490: प्रह्लाद उवाच| SPra112.3.0491: इयं लोकस्य जननी हिमवत्तनयाव्यया| SPra112.3.0492: उमेति लोके विख्याता तपोयोगबलान्विता|| ४९|| SPra112.3.0501: यस्य पुत्रो ऽभवद्ब्रह्मा प्राजापत्यं च यो ददौ| SPra112.3.0502: वरेण यश्च पुत्रस्य पुत्रतां ब्रह्मणो गतः|| ५०|| SPra112.3.0511: अस्माकं देवतानां च यो वरांस्तोषितो ददौ| SPra112.3.0512: आराध्यः सर्वलोकानां देवानां च महायशाः|| ५१|| SPra112.3.0521: इच्छया सर्वमाविश्य निमेषार्धेन संक्षिपेत्| SPra112.3.0522: सृजेद्वापि ग्रसेद्वापि योगमास्थाय लोलुप|| ५२|| SPra112.3.0531: यस्याष्टतनुभिः सर्वं धार्यते जगदव्ययम्| SPra112.3.0532: तस्य रुद्रस्य शर्वस्य पत्नीयं दानवेश्वर|| ५३|| SPra112.3.0541: इयमप्रतियोगित्वादपचारैः प्रमर्दितुम्| SPra112.3.0542: शक्ता हीयं जगत्सर्वं क्षणेनैवासुरेश्वर|| ५४|| SPra112.3.0551: दग्धुं वाप्यथ हन्तुं वा क्षेप्तुं नरक एव वा| SPra112.3.0552: नेह लभ्या त्वया देवी दग्नोतेस् स्थानादेव बहिर्यथा†स् || ५५|| SPra112.3.0560: सनत्कुमार उवाच| SPra112.3.0561: प्रह्लादवचनं श्रुत्वा व्याकुलस्य महात्मनः| SPra112.3.0562: अदृश्याः समपद्यन्त ताः स्त्रियो लोकमातरः|| ५६|| SPra112.3.0571: अथ ते तासु नष्टासु मन्दरस्य शुभं वनम्| SPra112.3.0572: पादचारेण संप्राप्ता बहुदृश्यसमावृतम्|| ५७|| SPra112.3.0581: बलाभिः कदलीषण्डैः प्रियङ्गुसातिमुक्तकैः| SPra112.3.0582: चम्पकैर्बकुलैर्लोध्रैरशोकैर्नागकेसरैः|| ५८|| SPra112.3.0591: पुन्नागैस्तिलकैश्चैव देवदारुवनैरपि| SPra112.3.0592: सरलैर्नारिकेलैश्च पद्मषण्डैश्च शोभितम्|| ५९|| SPra112.3.0601: गह्वरैश्च नितम्बैश्च गुहाभिर्निर्झरैरपि| SPra112.3.0602: न तस्माद्रमणीयं हि पृथिव्यां विद्यते क्वचित्|| ६०|| SPra112.3.0611: तत्र ते विचरन्तस्तु एकस्मिन्निर्झरे स्थितान्| SPra112.3.0612: सप्तर्षींस्तपसा शुद्धानपश्यन्त महामुनीन्|| ६१|| SPra112.3.0621: उपविष्टाञ्छिलापट्टे कथयन्तो महामुनीन्| SPra112.3.0622: धर्मयुक्ताः कथाश्चित्रा धार्मिकाश्च सुखावहाः|| ६२|| SPra112.3.0631: तान्दृष्ट्वा ते ऽसुरास्तत्र अपृच्छन्त परस्परम्| SPra112.3.0632: क इमे ऋषयो ह्यत्र किमर्थं चेह संगताः|| ६३|| SPra112.3.0641: तानुवाच तदा धीमानसुरान्देवकण्टकान्| SPra112.3.0642: हिरण्यकशिपोः पुत्रो बुद्ध्वा मध्ये समास्थितः|| ६४|| SPra112.3.0650: प्रह्लाद उवाच| SPra112.3.0651: एते चात्र महात्मानो मुनयः सप्त संगताः| SPra112.3.0652: भृगुरत्रिर्मरीचिश्च विश्वामित्रो ऽङ्गिरास्तथा|| ६५|| SPra112.3.0661: भरद्वाजो वसिष्ठश्च सप्तैते ऋषयः शुभाः| SPra112.3.0662: इहागता महात्मानस्तपसा दग्धकिल्बिषाः|| ६६|| SPra112.3.0671: नैषां निष्कारणं मन्ये मन्दरागमनं प्रति| SPra112.3.0672: ततो वयमिहैकान्ते स्थिताः सर्वे ऽसुरेश्वराः|| ६७|| SPra112.3.0681: जानीमः किमिमे कार्यमिह कुर्वन्ति साधवः| SPra112.3.0682: एते वै निभृता भूत्वा तूष्णीं कृत्वा महाबलाः|| ६८|| SPra112.3.0690: सनत्कुमार उवाच| SPra112.3.0691: ततस्ते समयं कृत्वा स्थिता असुरपुंगवाः| SPra112.3.0692: यो ऽस्माकं तु वदेत्किंचिद्वध्यो नः स भवेदिति|| ६९|| SPra112.3.0701: तत्र तेषु स्थितेष्वेवमसुरेषु दुरात्मसु| SPra112.3.0702: ऋषयस्ते तपोयुक्ता इदमूचुः परस्परम्|| ७०|| SPra112.3.0711: अयं देशो ह्यशुद्धो ऽद्य गच्छामो वयमन्यतः| SPra112.3.0712: भवान्यपि गतान्यत्र असुराणां भयार्दिता|| ७१|| SPra112.3.0721: असुरास्ते दुरात्मानो येषामेष क्षयो ध्रुवः| SPra112.3.0722: गतास्ते निधनं सर्वे धर्मं ये नाशयन्त्युत|| ७२|| SPra112.3.0731: राज्यार्थं प्रयतैः क्रूरैर्न धर्मो नाशितो भवेत्| SPra112.3.0732: नैव ते निधनं सर्वे प्राप्ताः स्युरमरद्विषः|| ७३|| SPra112.3.0741: स्वराज्यपरिसंतुष्टा भवेयुर्यदि संस्थिताः| SPra112.3.0742: ते ऽपि सर्वेषु लोकेषु बभुः पूज्याः सुरा इव|| ७४|| SPra112.3.0750: सनत्कुमार उवाच| SPra112.3.0751: अङ्गिरास्तानुवाचेदं न तेषां कामितस्त्विह| SPra112.3.0752: राज्यहेतोः प्रवृत्तानामधर्मः समुपस्थितः|| ७५|| SPra112.3.0761: उपार्जयति राज्यं वै धर्म एव हि कामितः| SPra112.3.0762: सो ऽधर्मं नैव कुर्वीत स्थैर्यं राज्यस्य किंचन|| ७६|| SPra112.3.0770: अत्रिरुवाच| SPra112.3.0771: अधर्मे राज्यमिच्छन्ति जयन्ति युधि सर्वदा| SPra112.3.0772: नो प्रियाश्चैव लोकस्य भवन्ति हतजीविनः|| ७७|| SPra112.3.0781: धार्मिकास्त्वचिरेणैव हत्वा शत्रूनविक्लवाः| SPra112.3.0782: राज्येषु संप्रतिष्ठन्ते तस्माद्धर्मं समाश्रयेत्|| ७८|| SPra112.3.0791: ये तु राज्यं बलेनैव धर्मं त्यक्त्वाशुभे रताः| SPra112.3.0792: इच्छन्तो ऽपि न तद्राज्यं प्राप्नुवन्ति कदाचन|| ७९|| SPra112.3.0801: अथ यत्प्राप्यते राज्यं तैस्तु क्रूरेण कर्मणा| SPra112.3.0802: न चिरं तद्भवेत्तेषां विद्विष्टाश्च भवन्त्युत|| ८०|| SPra112.3.0810: भृगुरुवाच| SPra112.3.0811: धर्म एव पुरा प्रोक्तो ह्यसुराणां भयापहः| SPra112.3.0812: ब्रह्मणा स्वस्तिकामेन न च ते वर्तयन्त्युत|| ८१|| SPra112.3.0821: स्वभावेन च ते सर्वे दारुणा वै निसर्गतः| SPra112.3.0822: दारुणाभिजनाश्चैव तत्कर्म समुपाश्रिताः|| ८२|| SPra112.3.0830: सनत्कुमार उवाच| SPra112.3.0831: असुरान्प्रति तेषां तु कथां कथयतां तदा| SPra112.3.0832: आगाद्धाता विधाता च कृतान्तश्च त्रयः समाः|| ८३|| SPra112.3.0841: तांस्ते संपूज्य विधिवत्परस्परमतिप्रभाः| SPra112.3.0842: उपविष्टाः शिलास्वेव मुनयो ऽपि च ते त्रयः|| ८४|| SPra112.3.0851: उपविष्टांश्चर्षयस्तानामान्त्र्य बहुमानतः| SPra112.3.0852: ऊचुः कस्माद्भवन्तो ऽद्य प्रस्थिता लोकचिन्तकाः|| ८५|| SPra112.3.0860: धातोवाच| SPra112.3.0861: ब्रह्मलोकादपावृत्ता वयमभ्यागता द्विजाः| SPra112.3.0862: ब्रह्मणा समनुज्ञप्ताः कश्यपस्य ततो ऽन्तिकम्|| ८६|| SPra112.3.0871: भूयो ऽपि मुनयः प्रोचुः किमुक्तः कश्यपो द्विजः| SPra112.3.0872: ततो ऽब्रवीन्मुनीन्धाता कश्यपं तु यदुक्तवान्|| ८७|| SPra112.3.0881: यत्त्वया ज्ञापितो ब्रह्मन्ब्रह्मा लोकपितामहः| SPra112.3.0882: असुरा अपि मे पुत्रा देवाश्चापि प्रियाः प्रभो|| ८८|| SPra112.3.0891: तेषां नैव यथान्योन्यं वैरं स्याल्लोकभावन| SPra112.3.0892: तथा कुरु सुरश्रेष्ठ भवेयं निर्वृतस्ततः|| ८९|| SPra112.3.0901: तत्राहं ब्रह्मणाज्ञप्तो ब्रवीमि त्वां महामुने| SPra112.3.0902: देवासुरं यथावृत्तमन्योन्यं सख्यमेव च| SPra112.3.0903: अमृतोत्पादनं चैव राज्यसंस्थां च कृत्स्नशः|| ९०|| SPra112.3.0911: त्वदर्थं भगवान्सर्वं भविष्यमृषिसत्तम| SPra112.3.0912: कथयामास लोकेशो देवासुरविचेष्टितम्|| ९१|| SPra112.3.0921: निवेद्य तस्य तत्सर्वं ब्रह्मणा प्रेषिता वयम्| SPra112.3.0922: इहागता भगवतीं द्रष्टुं हिमगिरेः सुताम्|| ९२|| SPra112.3.0931: तानेव देवतान्भूय ऋषयस्ते तपोधनाः| SPra112.3.0932: पप्रच्छुर्नियतात्मानः सर्व एव तदा मुने|| ९३|| SPra112.3.0941: देवासुराणां यद्वृत्तं भविष्यं कथितं सुराः| SPra112.3.0942: तद्वयं श्रोतुमिच्छामो यदि वो ऽनुग्रहे मतिः|| ९४|| SPra112.3.0951: किं च विज्ञापिता देवी युष्माभिः सुरसत्तमाः| SPra112.3.0952: कथयध्वं हि तत्सर्वं यद्यनुग्राह्यता हि नः|| ९५|| SPra112.3.0961: तेषां तद्वचनं श्रुत्वा ततस्ते सुरसत्तमाः| SPra112.3.0962: दग्नोते अथाचष्ट कृतान्तो हि वाक्यं वाक्यविशारदान्†|| ९६|| SPra112.3.0971: ततः स तेषां बहुचित्रकारणं यथाभविष्यं कथयांचकार| SPra112.3.9999: इति स्कन्दपुराणे सप्तर्षिसमागमो नामाध्यायः|| ११२-३||