Skandapurāṇa Adhyāya 112: S recension E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1120010: देव्युवाच| SP1120011: देव्यः शृणुत भूयो ऽपि यथा दानं विना शुभाः| SP1120012: अयमेवोपवासेन यथा धर्मो ऽपि लभ्यते|| १|| SP1120021: एकभक्तेन यो देव्यो मासं मार्गशिरं क्षपेत्| SP1120022: स तेन कर्मणा देव्यो गोमान्भवति नित्यशः|| २|| SP1120031: पौषमासेन पुत्रांश्च बहूनाप्नोति धार्मिकान्| SP1120032: माघमासे च कुर्वाणः स्त्रियः प्राप्नोति वै प्रियाः|| ३|| SP1120041: एकभक्तं तु कुर्वाणः फाल्गुने मासि नित्यशः| SP1120042: स्त्रीषु सौभाग्यमाप्नोति स्त्रियश्च परमप्रियाः|| ४|| SP1120051: यः क्षपेदेकभक्तेन चैत्रमासं नरोत्तमः| SP1120052: धनधान्यसमृद्धे स कुले जायेत रूपवान्|| ५|| SP1120061: वैशाखं यः क्षपेन्मासमेकभक्तेन मानवः| SP1120062: याति स श्रेष्ठतां लोके पूजितो धनवानपि|| ६|| SP1120071: ज्येष्ठमूलं तु यो मासमेकभक्तं समाचरेत्| SP1120072: भ्रातॄणां भवति ज्येष्ठो भोगं प्राप्नोति पुष्कलम्|| ७|| SP1120081: आषाढं चापि यो मासमेकभक्तं समाचरेत्| SP1120082: स राज्ञो ऽमात्यतां प्राप्य कामानाप्नोति पुष्कलान्|| ८|| SP1120091: श्रावणे चापि यो मासे तथा चैवाचरेन्नरः| SP1120092: सेनापत्यं स संप्राप्य बलवानभिजायते|| ९|| SP1120101: यस्तु भाद्रपदे मास-म्-एकभक्तं समाचरेत्| SP1120102: स तेन कर्मणा देव्यो धनवानभिजायते|| १०|| SP1120111: यो ऽपि चाश्वयुजं मासमेकभक्तेन तिष्ठति| SP1120112: वाणिज्यं फलते तस्य कृषिः पशुगणास्तथा|| ११|| SP1120121: कार्त्तिकं त्वपि यो मासमेकभक्तेन तिष्ठति| SP1120122: सो ऽश्वमेधफलं प्राप्य वह्निलोके महीयते|| १२|| SP1120131: यः क्षपेदेकभक्तेन यावज्जीवं नरोत्तमः| SP1120132: विमानेनार्कवर्णेन स गच्छेच्छक्रलोकताम्|| १३|| SP1120141: संवत्सरं तु यः पूर्णमेकभक्तेन तिष्ठति| SP1120142: स पार्थिवसमो भूत्वा महीं पाति महेन्द्रवत्|| १४|| SP1120151: अहोरात्रं तु यो देव्यः कुर्यादेकं नरोत्तमः| SP1120152: दशानां स सुवर्णानां फलं प्राप्नोति शोभितम्|| १५|| SP1120161: मासे मासे त्वहोरात्रं यः करोति नरोत्तमः| SP1120162: स तेन कर्मणा शुद्धो विद्वान्भवति धार्मिकः|| १६|| SP1120171: चतुर्दशीमष्टमीं च उभयोः पक्षयोरपि| SP1120172: अहोरात्रं क्षपेद्यस्तु संवत्सरमशेषतः|| १७|| SP1120181: स तेन कर्मणा युक्तः सर्वपापविवर्जितः| SP1120182: न याति नरकं देव्यो यमं च न स पश्यति|| १८|| SP1120191: मासे मासे च यः कुर्यात्त्रिरात्रक्षपणं बुधः| SP1120192: कौबेरं लोकमासाद्य स विन्देत्परमं सुखम्|| १९|| SP1120201: चतुर्थे ऽहनि यो भुङ्क्ते प्रयतात्मा शुचिर्नरः| SP1120202: गान्धर्वं स पदं प्राप्य मोदते शक्रवद्दिवि|| २०|| SP1120211: पञ्चमे ऽहनि यो भुङ्क्ते प्रतिमासमतन्द्रितः| SP1120212: वायुलोकं समासाद्य स्वर्गलोकं स गच्छति|| २१|| SP1120221: यो भुङ्क्ते दिवसे षष्ठे नित्यं नियममास्थितः| SP1120222: वारुणं लोकमासाद्य सो ऽपि विन्देन्महत्पदम्|| २२|| SP1120231: सप्तमे ऽहनि यो भुङ्क्ते जितद्वन्द्वो दृढव्रतः| SP1120232: आदित्यलोकमासाद्य सो ऽपि विन्देन्महत्पदम्|| २३|| SP1120241: अष्टमे चैव यो भुङ्क्ते दिवसे मानवः शुचिः| SP1120242: वैष्णवं लोकमासाद्य स भवेत्परमद्युतिः|| २४|| SP1120251: नवमे ऽहनि यो भुङ्क्ते नरो नियममास्थितः| SP1120252: स वसूनां प्रियो भूत्वा चरते वसुभिः सह|| २५|| SP1120261: दशमे ऽहनि भुक्त्वा तु दशाहस्य फलं लभेत्| SP1120262: अश्विभ्यां च समो भूत्वा सूर्यवज्ज्वलते सदा|| २६|| SP1120271: मानुष्यं च पुनः प्राप्य दश भार्या लभेत सः| SP1120272: सुवर्णमक्षयं चैव न चाकाले म्रियेत सः|| २७|| SP1120281: एकादशे तु यो भुङ्क्ते दिवसे मानवः शुचिः| SP1120282: एकादश्याः फलं प्राप्य स रुद्रगणतां लभेत्|| २८|| SP1120291: स्थित्वा तत्र शतान्यष्टावतिसौख्यसमन्वितः| SP1120292: ब्राह्मणत्वमनुप्राप्य यज्वा स इह जायते|| २९|| SP1120301: द्वादशे दिवसे यस्तु देव्यो भुङ्क्ते सदा नरः| SP1120302: द्वादशाहं स संप्राप्य शक्रलोकमवाप्नुयात्|| ३०|| SP1120311: तत्रोष्य स सुखं भूय इह जातो नरोत्तमः| SP1120312: राजा वा राजमात्रो वा धनी वा सुमहान्भवेत्|| ३१|| SP1120321: त्रयोदशे तु यो नित्यमश्नाति दिवसे नरः| SP1120322: विशेत्स भार्गवं स्थानं प्राप्य दिव्यसुखान्वितः|| ३२|| SP1120331: अथ चेन्मानुषो भूयः स नरो जायते शुभः| SP1120332: धनधान्यसमाकीर्णे जायते स कुले शुभः|| ३३|| SP1120341: चतुर्दश तु यो नित्यं दिवसानि क्षपेन्नरः| SP1120342: तौषितं लोकमासाद्य भवेद्गणपतिर्वरः|| ३४|| SP1120351: अर्धमासं क्षपेद्यस्तु नित्यमेव ह्यतन्द्रितः| SP1120352: देवराजेन तुल्यो ऽसौ भूत्वा स्वर्गे ऽवतिष्ठति| SP1120353: इह राजा महान्भूमौ भूय एवाभिजायते|| ३५|| SP1120361: यस्तु मासं क्षपेद्धीरो जितक्रोधो जितेन्द्रियः| SP1120362: विमानेन स दिव्येन अप्सरोभिः समावृतः|| ३६|| SP1120371: पूज्यमानो यथा देवः स्तूयमानश्च सर्वशः| SP1120372: ज्वलनादित्यसंकाशो नित्यं सुखमुपाश्नुते| SP1120373: सर्वलोकेषु वसते बहून्यब्दायुतानि तु|| ३७|| SP1120381: ततो ब्रह्मसदं प्राप्य ब्रह्मणा स सुपूजितः| SP1120382: ब्रह्मलोके निवसते यथा ब्रह्मा नरोत्तमः|| ३८|| SP1120391: अथ चेत्पुनरायाति ब्राह्मणो भवतीश्वरः| SP1120392: योगं च तत्र लभते येनैश्वर्यं समश्नुते| SP1120393: योगीशः स ततो भूत्वा शम्भोर्गणपतिर्भवेत्|| ३९|| SP1120401: सर्वेषां चोपवासानां विधिं परमपुण्यदम्| SP1120402: देव्यः शृणुध्वं मत्तो ऽन्यं यथावदनुपूर्वशः|| ४०|| SP1120411: स्नातः शुचिरथाचान्तो हुताग्निः सुसमाहितः| SP1120412: दीक्षयित्वा ततो ऽत्मानमुपवासं चरेद्बुधः|| ४१|| SP1120421: स्नायेत्त्रिषवणं चैव जुहुयादग्निमेव च| SP1120422: वाग्यतो ऽक्रोधनो दान्तो धार्मिकः सत्यवाग्घृणी|| ४२|| SP1120431: जपन्स चैव गायत्रीं पवित्राणि च नित्यशः| SP1120432: रुद्रानथ गणान्वापि रात्रौ च स्थण्डिलेशयः| SP1120433: कुशानास्तीर्य विधिवत्स्त्रीशूद्रैः परिवर्जितः|| ४३|| SP1120441: समश्नीयात्ततो देव्यो वीतशोको विमत्सरः| SP1120442: यावन्त्यहानि तिष्ठेत तावद्विप्रांस्तु भोजयेत्|| ४४|| SP1120451: ततः पूर्णे तु काले वै ब्राह्मणानां शतं वरम्| SP1120452: सहस्रमथवा शक्त्या पूजयित्वा तु सर्वशः|| ४५|| SP1120461: हविष्यं भोजनं दत्त्वा गावो वासांसि च क्रमात्| SP1120462: सुवर्णं तिलपात्रं च एकैकस्य प्रदापयेत्| SP1120463: ततस्तत्फलमाप्नोति यदन्यैर्दुर्लभं व्रतैः|| ४६|| SP1120471: वृषभं यस्तु नीलाङ्गमुत्सृजेत नरोत्तमः| SP1120472: अन्यं वापि महाभागाः स पितॄंस्तारयेन्नरः|| ४७|| SP1120481: यावन्ति तस्य रोमाणि वृषभस्य महात्मनः| SP1120482: तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते|| ४८|| SP1120491: तिलपात्राणि यो दद्याद्विप्रेभ्यः शुद्धमानसः| SP1120492: अमावास्यां समासाद्य कृष्णानां सुसमाहितः|| ४९|| SP1120501: स पितॄंस्तर्पयित्वा तु अक्षयं नरपुंगवः| SP1120502: पितृलोकं समाप्नोति चिरं च सुखमश्नुते|| ५०|| SP1120511: उपवासविधिस्त्वेष कथितो मे सुशोभनाः| SP1120512: चान्द्रायणविधिं भूयः शृणुध्वं सुसमाहिताः|| ५१|| SP1120521: यस्तु चान्द्रायणं कुर्याद्यथोक्तं सुसमाहितः| SP1120522: स सोमलोकमासाद्य सोमेन समतां व्रजेत्|| ५२|| SP1120531: प्राजापत्यं तु यः कुर्यादेकशो बहुशो ऽपि वा| SP1120532: प्रजापतिसमो भूत्वा तस्य लोके महीयते|| ५३|| SP1120541: यस्तु सांतपनं कृच्छ्रं करोति नरसत्तमः| SP1120542: आत्मानमुद्धरेत्कृच्छ्रात्सो ऽग्निलोकं च गच्छति|| ५४|| SP1120551: महासांतपनं यश्च करोति सुमहामनाः| SP1120552: सर्वज्ञतामवाप्नोति ब्रह्मलोकं च विन्दति|| ५५|| SP1120561: तुलापुरुषकं यश्च कुरुते द्विजसत्तमः| SP1120562: स मुक्तः सर्वपापैस्तु गच्छेत दिवि-म्-ऊर्जितः|| ५६|| SP1120571: अतिकृच्छ्रेण तु नरः शर्वस्य भवनं व्रजेत्| SP1120572: कृच्छ्रातिकृच्छ्रेण तथा गाणापत्यमवाप्नुयात्|| ५७|| SP1120581: यस्तु सर्वाणि कृच्छ्राणि कुरुते नरसत्तमः| SP1120582: स यं प्रार्थयते कामं तमेव समुपाश्नुते|| ५८|| SP1120591: यस्य कस्यचिदेवेह कृच्छ्रस्य सुसमाहितः| SP1120592: स तेन सिद्धो भवति देवत्वं चापि विन्दति|| ५९|| SP1120601: पयोभक्षस्तु यो नित्यं नरः संवत्सरं वसेत्| SP1120602: यावकं चोपयुञ्जानो गोमूत्रेणाभिसंस्कृतम्|| ६०|| SP1120611: पिण्याकफलभक्षो वा अक्षारलवणो ऽपि वा| SP1120612: सो ऽश्वमेधफलं प्राप्य ब्रह्मलोकं समश्नुते|| ६१|| SP1120621: सर्वपापविनिर्मुक्तो विमुक्तः सर्वबन्धनैः| SP1120622: विमानेनार्कवर्णेन ब्रह्मवच्चरते च सः|| ६२|| SP1120631: यस्त्वेतान्येव सर्वाणि व्यस्तानि नरसत्तमः| SP1120632: यावदुच्छ्वासमासेवेन्महात्मा नष्टकिल्बिषः|| ६३|| SP1120641: स लोकान्वा महासत्त्वो यथेष्टान्मोक्षमेव वा| SP1120642: ऐश्वर्यं वा महत्प्राप्य दीप्यमानो ऽवतिष्ठते|| ६४|| SP1120651: एतान्येव च सर्वाणि दानानि च तपांसि च| SP1120652: विना मन्त्रेण सततं शूद्राणामपि सर्वशः|| ६५|| SP1120661: विधीयन्ते न संदेह एवमाह प्रजापतिः| SP1120662: अमन्त्रास्ते स्मृताः सर्वे शूद्रा विगतकल्मषाः|| ६६|| SP1120671: स्त्रीणां तु दैवतं भर्ता न ततो ऽन्यद्विधीयते| SP1120672: स गतिः परमं धाम स धर्मः परमः स्मृतः|| ६७|| SP1120681: तेन या त्वभ्यनुज्ञाता इदं धर्मं समाचरेत्| SP1120682: सा फलं तस्य धर्मस्य प्राप्नोति सुसमाहिता|| ६८|| SP1120691: या तु तेनाननुज्ञाता धर्मं कुर्याच्छुचिस्मिताः| SP1120692: न तत्फलं सा लभते लभते चासतीफलम्|| ६९|| SP1120701: या तु भर्त्राभ्यनुज्ञाता कृत्वा धर्मं सुपुष्कलम्| SP1120702: दद्यात्तु पतये नारी तस्यानन्तं हि तत्फलम्|| ७०|| SP1120711: यच्च प्रार्थयते किंचिदिह लोके परत्र वा| SP1120712: तत्सर्वं प्राप्नुते देव्यः सुभगा चाभिजायते|| ७१|| SP1120721: वश्यश्चास्या भवेद्भर्ता प्रिया तस्य च सा तदा| SP1120722: पुत्रप्रजा च भवति न च दुःखं समश्नुते| SP1120723: एष धर्मो मयाख्यातो युष्माकं लोकमातरः|| ७२|| SP1120730: सनत्कुमार उवाच| SP1120731: ततस्ताः सहिताः सर्वा देव्यो लोकस्य मातरः| SP1120732: पूजयित्वा महादेवीमूचुः संहृष्टचेतसः|| ७३|| SP1120741: अहो धर्मस्त्वयाख्यातः सर्वामरनमस्कृते| SP1120742: यस्य संसेवनात्क्षिप्रं प्राप्यते सुमहत्फलम्|| ७४|| SP1120751: इतो वीक्षामहे देवि गिरेरस्य वनं शुभम्| SP1120752: पुष्पजातिसमाकीर्णं बहुपक्षिगणावृतम्|| ७५|| SP1120761: तत उत्थाय सा देवी सहिता देवमातृभिः| SP1120762: मन्दरस्य गिरेर्दिव्यं द्रष्टुं तद्वनमुत्तमम्| SP1120763: विचचार महायोगा चक्षुर्देहसुखावहम्|| ७६|| SP1120771: मानःशिलानि शृङ्गाणि सौवर्णानि च वीक्षती| SP1120772: रम्याणि सिततोयानि गिरेः प्रस्रवणानि च|| ७७|| SP1120781: सरांस्युत्पलपूर्णानि वापीश्च सुमनोहराः| SP1120782: तुतोष गिरिजा दृष्ट्वा पार्श्वसंस्थं च नन्दिनम्|| ७८|| SP1120791: ततः सा देवदेवी तु विचरन्ती महागिरिम्| SP1120792: अपश्यद्बालसूर्याभं बालाशोकं सुपुष्पितम्| SP1120793: आताम्रपल्लवशतैः कृत्वाञ्जलिमवस्थितम्|| ७९|| SP1120801: तं दृष्ट्वा गिरिजा देवी परां प्रीतिमगान्मुने| SP1120802: एष मे तनयः श्लाघ्यो भविता नन्दिवर्धनः|| ८०|| SP1120811: भगवत्यागते ह्येनमनुज्ञाता स्वयम्भुवा| SP1120812: ग्रहीष्यामि प्रियं पुत्रं बालाशोकं सुपादपम्|| ८१|| SP1120821: अथास्मिन्नन्तरे तत्र उत्पातो ऽतीव भीषणः| SP1120822: वायुवेगो महानासीद्गिरिवृक्षनिपातनः|| ८२|| SP1120831: अन्धको ऽपि तदा दैत्यः पातालान्मन्दरं ययौ| SP1120832: प्रह्लादप्रमुखैर्दैत्यैर्दानवैश्च सहस्रशः| SP1120833: वृतः श्रीमान्महादैत्यः शक्रो देवगणैरिव|| ८३|| SP1120841: सो ऽन्धकः सुमहावीर्यः सखीभिः सहितां तदा| SP1120842: अपश्यद्देवदेवीं तु वृकः सिंहवधूमिव|| ८४|| SP1120851: दृष्ट्वा भगवतीं देवीं स दैत्यो मूढचेतनः| SP1120852: प्रणामं नाकरोद्व्यास अन्ववेक्षत केवलम्|| ८५|| SP1120861: तं दृष्ट्वानिमिषं दैत्यं पश्यन्तमचलात्मजाम्| SP1120862: प्रह्लादस्तु महाबुद्धिरिदमाह वचो ऽर्थवत्|| ८६|| SP1120871: जगतो जननी ह्येषा हिमवद्दुहिताव्यया| SP1120872: उमेति जगति ख्याता तपोयोगबलान्विता|| ८७|| SP1120881: यस्य पुत्रो ऽभवद्ब्रह्मा सर्वलोकपितामहः| SP1120882: अस्माकं देवतानां च यो ददाति वराञ्छुभान्|| ८८|| SP1120891: यः स्थितः सर्वमाविश्य भूतग्राममशेषतः| SP1120892: यस्यात्मना सर्वमिदं धार्यते जगदव्ययम्|| ८९|| SP1120901: पत्नीयं तस्य देवस्य परमेशस्य धीमतः| SP1120902: शक्ता हीयं जगत्सर्वं क्षणेन दितिजाधिप|| ९०|| SP1120911: दग्धुं वाप्यथवा हर्तुं क्षेप्तुं नरक एव वा| SP1120912: कथमस्याः प्रणामं त्वं नाकरोर्दैत्य मोहित|| ९१|| SP1120920: सनत्कुमार उवाच| SP1120921: अथैवं ब्रुवतस्तस्य धर्मयुक्तं सुरद्विषः| SP1120922: देवीभिः सहिता देवी क्षणेनान्तर्हिता मुने|| ९२|| SP1120931: अथ ते दैत्यपाः सर्वे विचरन्तो महागिरौ| SP1120932: बहुनिर्झरसंकीर्णे नानापादपसंकुले|| ९३|| SP1120941: तत्र ते विचरन्तस्तु एकस्मिन्निर्झरे स्थितान्| SP1120942: अपश्यन्सप्तर्षीन्सिद्धान्योगयुक्तान्महामुनीन्|| ९४|| SP1120951: तान्दृष्ट्वा सो ऽन्धको ऽपृच्छत्प्रह्लादमसुरोत्तमम्| SP1120952: क इमे ऋषयो ह्यत्र किमर्थं चेह संगताः|| ९५|| SP1120960: प्रह्लाद उवाच| SP1120961: एते ऽन्धक महात्मानो ऋषयः सप्त संगताः| SP1120962: भृगुरत्रिर्मरीचिश्च विश्वामित्रो ऽङ्गिरास्तथा|| ९६|| SP1120971: भरद्वाजो वसिष्ठश्च योगसिद्धास्तपोधनाः| SP1120972: नैषां निष्कारणं मन्ये मन्दरागमनं प्रभो|| ९७|| SP1120981: इतो वयमिहैकान्ते स्थित्वा सर्वे ऽसुरेश्वराः| SP1120982: मतं गृह्णीम सर्वेषां तूष्णीं तिष्ठत दैत्यपाः|| ९८|| SP1120991: ततस्तेषु स्थितेष्वेवमसुरेषु दुरात्मसु| SP1120992: ऋषयस्ते तपोयुक्ता वाक्यमूचुः परस्परम्|| ९९|| SP1121001: न शुद्धो ऽयं गिरेर्देशो गच्छामो ऽन्यत्र वै द्विजाः| SP1121002: इहागमो हि दैत्यानां दृश्यते सुदुरात्मनाम्|| १००|| SP1121011: गतास्ते निधनं सर्वे धर्मं ये नाशयन्त्युत| SP1121012: राज्यार्थं यदि तैः क्रूरैर्न धर्मो नाशितो भवेत्| SP1121013: नैव ते निधनं सर्वे प्राप्ताः स्युरमरद्विषः|| १०१|| SP1121021: स्वराज्यपरिसंतुष्टा भवेयुर्यदि संस्थिताः| SP1121022: ते ऽपि सर्वेषु लोकेषु बभुः पूज्याः सुरा इव|| १०२|| SP1121031: असुरान्प्रति सर्वेषामेवं कथयतां तदा| SP1121032: आगाद्धाता विधाता च कृतान्तश्च महाबलः|| १०३|| SP1121041: तांस्ते संपूज्य विधिवत्परस्परमनुव्रताः| SP1121042: ऊचुः क्वेदं भवन्तो ऽद्य प्रस्थिता लोकधारिणः|| १०४|| SP1121050: विधातोवाच| SP1121051: ब्रह्मलोकादुपावृत्ता वयमद्य गता द्विजाः| SP1121052: ब्रह्मणा स्म समाज्ञाप्ताः कश्यपस्य ततो ऽन्तिकम्|| १०५|| SP1121061: अथाब्रवीन्मुनिं धाता कश्यपं तं प्रजापतिम्| SP1121062: यत्त्वया ज्ञापितो ब्रह्मन्ब्रह्मा लोकपितामहः|| १०६|| SP1121071: असुरा अपि मे पुत्रा देवाश्चापि प्रियाः प्रभो| SP1121072: तेषां नैव यथान्योन्यं वैरं स्याल्लोकभावन| SP1121073: तथा कुरु सुरश्रेष्ठ भवेयं निर्वृतस्ततः|| १०७|| SP1121081: तत्राहं ब्रह्मणाज्ञाप्तो ब्रवीमि त्वां महामुने| SP1121082: देवासुरं यथावृत्तमन्योन्यं सख्यमेव च| SP1121083: अमृतोत्पादनं चैव राज्यसंस्थां च कृत्स्नशः|| १०८|| SP1121091: तस्यैवं पृच्छतः सर्वं भविष्यमृषिसत्तमः| SP1121092: कथयामास भूतार्थं देवासुरविचेष्टितम्|| १०९|| SP1121101: निवेद्य तस्य तत्सर्वं ब्रह्मणा प्रेषिता वयम्| SP1121102: इहागता भगवतीं द्रष्टुं हिमगिरेः सुताम्|| ११०|| SP1121110: सनत्कुमार उवाच| SP1121111: तानेवंवादिनो भूयो ऋषयस्ते तपोधनाः| SP1121112: पप्रच्छुर्नियतात्मानः सर्व एव तदा मुने|| १११|| SP1121121: देवासुराणां यद्वृत्तं भविष्यं कथितं शुभाः| SP1121122: तद्वयं श्रोतुमिच्छामो यदि वो ऽनुग्रहे मतिः|| ११२|| SP1121131: किं च विज्ञापिता देवी युष्माभिः सुरसत्तमाः| SP1121132: कथयध्वं च तत्सर्वं यद्यनुग्राह्यता हि नः|| ११३|| SP1121141: तेषां तद्वचनं श्रुत्वा त्रयस्ते देवसत्तमाः| SP1121142: त्वमाचक्ष्व कृतान्तेति वाक्यमूचुर्महाबलाः|| ११४|| SP1121151: ततः स तेषां बहुचित्रकारणं यथाभविष्यं कथयांचकार| SP1121152: सुरासुराणां जयतां च कारणं पुरा विधात्रा विहितं यथार्थवत्|| ११५|| SP1129999: इति स्कन्दपुराणे द्वादशोत्तरशतो ऽध्यायः||