Skandapurāṇa Adhyāya 111 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1110010: व्यास उवाच| SP1110011: गते दिवं महादेवे व्रतमादेष्टुमुत्तमम्| SP1110012: एकाकिनी महादेवी किं चक्रे तदनन्तरम्|| १|| SP1110020: सनत्कुमार उवाच| SP1110021: गते तस्मिन्महादेवे देवीं गिरिवरात्मजाम्| SP1110022: उपतस्थुर्महाभागा देव्यो लोकस्य मातरः|| २|| SP1110031: भरतस्य सुताग्नेस्तु मालिनीत्यभिविश्रुता| SP1110032: शुभावती च देवस्य पर्जन्यस्य सुताव्यया|| ३|| SP1110041: सावित्री वेदमाता च गायत्री दुर्गया सह| SP1110042: श्रीः कीर्तिश्चैव लक्ष्मी च धृतिः प्रज्ञा तथैव च|| ४|| SP1110051: ख्यातिर्दितिर्दनुश्चैव अदितिः सिंहिका खशा| SP1110052: राका कुहू सिनीवाली तथैवानुमती शुभा|| ५|| SP1110061: गङ्गा सरस्वती चैव तथान्याः सरितः शुभाः| SP1110062: ऋषीणां पत्नयो याश्च देवानां यक्षरक्षसाम्| SP1110063: उरगाणां खगानां च गन्धर्वाणां तथैव च|| ६|| SP1110071: एताः सर्वास्तथागम्य नमस्कृत्वा च पार्वतीम्| SP1110072: पप्रच्छुः सर्वधर्मज्ञां धर्मं धर्मार्थसंश्रिताः|| ७|| SP1110081: केन धर्मेण देवेशे तपसा वा शुभानने| SP1110082: सुमहत्प्राप्यते पुण्यं किं चाक्षय्यं प्रकीर्तितम्|| ८|| SP1110090: देव्युवाच| SP1110091: युष्माकं तु हितार्थाय लोकानां चैव सुव्रताः| SP1110092: कथयिष्याम्यहं धर्मं यथावदनुपूर्वशः|| ९|| SP1110101: अन्नदानात्परं दानं नैव किंचिद्धि विद्यते| SP1110102: अन्नाद्भवन्ति भूतानि तस्मात्तदधिकं स्मृतम्|| १०|| SP1110111: अन्नं यस्तु सुसंस्कृत्य प्रयच्छेत द्विजातये| SP1110112: स सर्वकामानाप्नोति पूज्यते च त्रिपिष्टपे|| ११|| SP1110121: मयूरहंसयुक्तं च सर्वकामसमृद्धिमत्| SP1110122: विमानं सूर्यसंकाशमन्नदो लभते शुभम्|| १२|| SP1110131: यदि मानुष्यमायाति कदाचित्स नरोत्तमः| SP1110132: धनधान्यसमाकीर्णे कुले जायति रूपवान्|| १३|| SP1110141: यथाशक्ति तु यो दद्याद्दिवसे दिवसे नरः| SP1110142: स तेन कर्मणाप्नोति प्रजापतिसलोकताम्|| १४|| SP1110151: कदाचिदपि यो दद्यादन्नं विप्राय संस्कृतम्| SP1110152: तस्यापि तच्छतगुणं सहस्रगुणमेव च| SP1110153: उपतिष्ठति लोकेषु इहापि च सुखी भवेत्|| १५|| SP1110161: अवधूतमवज्ञातमसत्कृतमथापि च| SP1110162: अन्नं प्रदद्याद्यो देवि यादृशं तादृशं शुभे|| १६|| SP1110171: तस्यापि नरके घोरे यात्यमानस्य राक्षसैः| SP1110172: उपतिष्ठेत बधुधा तृप्तिर्येनास्य जायते|| १७|| SP1110181: यदि मानुष्यमायाति कदाचित्स नरः पुनः| SP1110182: म्लेच्छेषु भोगी भवति रमते च यथामरः|| १८|| SP1110191: अन्नमेवं विशिष्टं हि न तस्मात्परमं भुवि| SP1110192: अन्नं प्रजापतिः प्रोक्तं स च संवत्सरो मतः| SP1110193: संवत्सरश्च यज्ञो ऽसौ यज्ञे सर्वं प्रतिष्ठितम्|| १९|| SP1110201: तस्माद्भवन्ति भूतानि स्थावराणि चराणि च| SP1110202: तस्मादन्नं विशिष्टं तु सर्वेभ्य इति वै श्रुतिः|| २०|| SP1110211: अन्नदानात्परं दानं नैव किंचिद्धि विद्यते| SP1110212: अन्नाद्भवन्ति भूतानि तस्मात्तद्वै प्रशस्यते|| २१|| SP1110221: सुगन्धाः शीतलाश्चापो रसैर्दिव्यैः समन्विताः| SP1110222: यः प्रयच्छति विप्रेभ्यस्तस्य दानफलं शृणु|| २२|| SP1110231: विमानं सूर्यसंकाशमप्सरोगणनादितम्| SP1110232: सो ऽधिरुह्य दिवं याति वरुणस्य सलोकताम्|| २३|| SP1110241: तत्रासावयुतान्यष्टावुषित्वा देववत्सुखी| SP1110242: कुले महत्यसंकीर्णे जायते धनधान्यवान्|| २४|| SP1110251: अपां तु पूर्णं यो भाण्डं ब्राह्मणाय प्रयच्छति| SP1110252: रसास्तस्योपतिष्ठन्ति पूज्यते च दिवं गतः|| २५|| SP1110261: भाजनानि च यो दद्यात्सुपूर्णानि शुभानने| SP1110262: भाजनं स्यात्स भोगानां तारयेच्च पितॄन्भयात्|| २६|| SP1110271: तडागं यस्तु कुर्वीत अपां देवि समृद्धिमत्| SP1110272: गावः पिबन्ति वै यत्र सर्वे जन्तव एव च|| २७|| SP1110281: तारयित्वा च स पितॄंस्तथैव च पितामहान्| SP1110282: प्रपितामहांश्च लोकेषु कामगेषु विहंगमः| SP1110283: चरते देववद्देवि वर्षायुतशतानि षट्|| २८|| SP1110291: पुनश्च मानुषे लोके सर्वरोगविवर्जितः| SP1110292: भोगी भवति भोगानां राजमात्रश्च जायते| SP1110293: दाता यज्वा च बलवान्सुप्रभः प्रियदर्शनः|| २९|| SP1110301: अवटं यो नरः कुर्यादपां पूर्णं शुचिस्मिते| SP1110302: दद्याच्च ब्राह्मणेभ्यस्तं भोजयित्वा यथार्थवत्|| ३०|| SP1110311: अष्टाभिः सुविचित्राभिः पताकाभिरलंकृतम्| SP1110312: ध्वजेन वैजयन्त्या च पुष्पैश्च समलंकृतम्|| ३१|| SP1110321: स तारयित्वा तु पितॄन्विमानेन नरोत्तमः| SP1110322: यात्यप्सरोपगीतेन वरुणस्य सलोकताम्|| ३२|| SP1110331: हिरण्यं हेम भूमिं वा तिलान्रत्नानि वापि यः| SP1110332: प्रदद्यात्सर्वभूतेभ्यस्तस्य पुण्यफलं शृणु|| ३३|| SP1110341: स विमानेन महता सर्वलोकसमन्वितः| SP1110342: इन्द्रलोकं स संप्राप्य मोदते विबुधो यथा|| ३४|| SP1110351: ततश्च्युतश्च धर्मात्मा सर्वकामसमृद्धिमान्| SP1110352: कुले महति लोकेशो जायते सुभगश्च ह|| ३५|| SP1110361: यस्तु वृक्षं प्रकुरुते छायापुष्पफलोपगम्| SP1110362: पथि देवि नरः सोम्ये स तारयति वै पितॄन्|| ३६|| SP1110371: तथैव दत्त्वा विप्रेभ्यो निष्क्रीय च पुनर्नरः| SP1110372: स यत्फलमवाप्नोति तच्छृणुष्व महाप्रभे|| ३७|| SP1110381: यावद्वृक्षस्य पुष्पाणि उपयुज्यन्ति देहिनः| SP1110382: फलानि चैव भक्ष्यन्ते जन्तुभिः फलितस्य तु|| ३८|| SP1110391: तावद्वर्षसहस्राणि तारयित्वा पितॄनपि| SP1110392: सोमलोकं समासाद्य स मृतः फलमाप्नुयात्|| ३९|| SP1110401: फलानि यः प्रयच्छेत ब्राह्मणेभ्यः समाहितः| SP1110402: फलानां स तु भागी स्याद्बहूनां सुभगश्च ह|| ४०|| SP1110411: काष्ठानि यः प्रयच्छेत हेमन्ते नरसत्तमः| SP1110412: ब्राह्मणेभ्यः सदा देवि सो ऽग्निलोकं समश्नुते|| ४१|| SP1110421: भाजनं यः प्रयच्छेत हैमं रत्नविभूषितम्| SP1110422: सो ऽप्सरःशतसंकीर्णे विमाने दिवि मोदते|| ४२|| SP1110431: राजतं यः प्रयच्छेत विप्रेभ्यो भाजनं शुभे| SP1110432: स गान्धर्वपदं प्राप्य उर्वश्या सह मोदते|| ४३|| SP1110441: ताम्रं यो भाजनं दद्याद्ब्राह्मणेभ्यो विशेषतः| SP1110442: स भवेद्यक्षराजस्य यक्षो बलसमन्वितः|| ४४|| SP1110451: गृहं यस्तु प्रयच्छेत सर्वकामसमृद्धिमत्| SP1110452: स लोकं ब्रह्मणः प्राप्य सर्वकामैर्निषेव्यते|| ४५|| SP1110461: वर्षकोट्यः स तत्रोष्य चतस्रस्तेन कर्मणा| SP1110462: गृहमेधी सदादाता भोगवांश्चैव जायते|| ४६|| SP1110471: औषधीर्यः प्रयच्छेत धान्यानि विविधानि च| SP1110472: स सर्वकामसमृद्धं सोमलोकं समश्नुते|| ४७|| SP1110481: तत्र वर्षसहस्राणि सप्त स्थित्वा पुनर्नरः| SP1110482: इह सर्वधनोपेतो भोगवानभिजायते|| ४८|| SP1110491: यस्तु क्षेत्रं प्रयच्छेत निष्पन्नं फलवत्पुनः| SP1110492: स तु क्षेत्रं पुमान्भुक्त्वा प्राजापत्यं समश्नुते|| ४९|| SP1110501: यस्तु भूमिं प्रयच्छेत ब्राह्मणाय महात्मने| SP1110502: सर्वलोकेषु स सुखी विमानेन सुवर्चसा| SP1110503: बहून्यब्दसहस्राणि चरते कामरूपवान्|| ५०|| SP1110511: यदि मानुष्यमायाति स नरः कालपर्ययात्| SP1110512: तत्र कामदुहा तस्य मही भवति सर्वशः|| ५१|| SP1110521: यस्तु वस्त्रं प्रयच्छेत ब्राह्मणाय महायशाः| SP1110522: स लोकं प्राप्य वैराजं वर्षकोटिं सुखं वसेत्|| ५२|| SP1110531: आसनं यः प्रयच्छेत संवीतं ब्राह्मणाय वै| SP1110532: स राज्यस्थानमाप्नोति स्वर्गं चाप्नोति विज्वरः|| ५३|| SP1110541: यस्तु शय्यां प्रयच्छेत स्वास्तीर्णां नरसत्तमः| SP1110542: स तु भार्याः प्रिया दिव्या बह्वीर्भर्ता समश्नुते|| ५४|| SP1110551: यस्तु कन्यां प्रयच्छेत ब्राह्मणाय स्वलंकृताम्| SP1110552: स गत्वा पितृलोकं वै वर्षायुतशतं वसेत्|| ५५|| SP1110561: इह चापि पुनर्जातः सर्वकामसमन्वितः| SP1110562: भार्याः प्राप्नोति भक्ताश्च प्रजावांश्चोपजायते|| ५६|| SP1110571: अश्वं यस्तु प्रयच्छेत हेमचित्रं सुलक्षणम्| SP1110572: स तेन कर्मणा देवि गान्धर्वं लोकमश्नुते|| ५७|| SP1110581: रथमश्वं गजं दासीं कन्यां गृहमथापि च| SP1110582: भूमिं च यः प्रयच्छेत स राजा भुवि जायते|| ५८|| SP1110591: विधिना मन्त्रयुक्तेन तस्य धर्मफलं महत्| SP1110592: सर्वकामदुहा सास्य धेनुर्भूत्वोपतिष्ठति|| ५९|| SP1110601: जलधेनुं च यो दद्यात्तस्य दानफलं शृणु| SP1110602: प्रपां सभां तडागं वा कूपं वापि सुपुष्कलम्|| ६०|| SP1110611: कृत्वा कुम्भान्सुसंपूर्णान्गन्धमाल्यैरलंकृतान्| SP1110612: पुष्पैश्च विविधाकारैरभ्यर्च्य द्विजसत्तमान्|| ६१|| SP1110621: भक्ष्यभोज्यैः सुतृप्तानां तिलपात्राणि दापयेत्| SP1110622: दक्षिणां पुष्कलां दद्यात्तेभ्यस्तां स्पर्शयेत्ततः|| ६२|| SP1110631: आपः शिवाश्च सौम्याश्च तर्पयन्तु पितॄन्मम| SP1110632: कामगाः कामदातारो भवन्त्विति च वै वदेत्|| ६३|| SP1110641: एवं दत्त्वा तु तां धेनुं पुनः क्रीत्वा च वै तदा| SP1110642: वाहयेत्तां प्रपां देवि ब्रह्मलोकसमर्पणीम्|| ६४|| SP1110651: तिलपात्राणि दत्त्वा च तथा वस्त्रयुगं नवम्| SP1110652: सुवर्णस्य च सांनिध्यं फलानि विविधानि च| SP1110653: ततो दद्याच्छुचिः स्नातो ब्राह्मणेभ्यो यथाविधि|| ६५|| SP1110661: घृतं गावः प्रसूयन्ते घृतं भूम्यां प्रतिष्ठितम्| SP1110662: घृतमग्निश्च देवाश्च घृतं मे संप्रदीयताम्| SP1110663: एवं विधानतो दत्त्वा ब्रह्मलोकमवाप्नुयात्|| ६६|| SP1110671: यो नरो गां प्रयच्छेत सवत्सां कांस्यदोहनीम्| SP1110672: हेमशृङ्गीं रूप्यखुरां दुकूलक्षौमवासिताम्|| ६७|| SP1110681: शय्यास्तरणसंपन्नां बहुपुष्पफलैर्युताम्| SP1110682: ब्राह्मणांस्तर्पयित्वा तु गन्धमाल्यैरलंकृताम्|| ६८|| SP1110691: दानकाले ततस्तस्याः सुरा गात्राणि संश्रिताः| SP1110692: ब्रह्मा तस्याः स्थितो मूर्ध्नि शक्रो ऽपानं समाश्रितः|| ६९|| SP1110701: चन्द्रादित्यौ च नेत्रस्थौ घ्राणे वायुः प्रतिष्ठितः| SP1110702: मुखं तस्याः श्रितो वह्निर्जिह्वां सोमः स्वयं प्रभुः|| ७०|| SP1110711: कर्णयोस्तु दिशः सर्वाः शिरो रुद्राः समाश्रिताः| SP1110712: पादयोर्लोकपालाः स्युः सर्वे ऽस्थीनि च पर्वताः|| ७१|| SP1110721: समुद्राः सप्त जठरे ग्रीवायां तपनाः श्रिताः| SP1110722: सास्नां गङ्गा सरिच्छ्रेष्ठा पार्श्वे तु वसवः शुभाः|| ७२|| SP1110731: प्रजापतिरुपस्थं च मूत्रं तीर्थानि सर्वशः| SP1110732: पुरीषं श्रीरभूत्तस्या नागाश्चान्त्राणि सर्वशः| SP1110733: साध्या विश्वे ऽथ लोकाश्च पुच्छमाश्रित्य संस्थिताः|| ७३|| SP1110741: मन्त्रा यज्ञाश्च दानानि यमानि ऋषिभिः सह| SP1110742: नक्षत्राणि ग्रहाश्चैव तारारूपाणि यानि च|| ७४|| SP1110751: गायत्री चैव तृष्टुप्च जगती पङ्क्तिरेव च| SP1110752: अनुष्टुबृग्यजुश्चैव सामान्याथर्वणं तथा|| ७५|| SP1110761: लोकस्य मातरश्चैव मेघा वर्षमथापि च| SP1110762: धर्मो नारायणश्चैव भूतानि सरितस्तथा| SP1110763: रोमकूपाणि संश्रित्य तस्या देवा व्यवस्थिताः|| ७६|| SP1110771: यक्षाश्च राक्षसाश्चैव पिशाचाः पक्षिभिः सह| SP1110772: यज्ञाश्च दक्षिणाश्चैव तथा चाप्सरसः शुभाः|| ७७|| SP1110781: गन्धर्वाश्च महात्मानो ये चान्ये ऽप्येवमादयः| SP1110782: तस्या विषाणयोर्व्यास सर्व एव समाश्रिताः|| ७८|| SP1110791: फलानि यज्ञदानानां गतयश्च पृथग्विधाः| SP1110792: वत्सं समाश्रिताः सर्वे सर्वदेवमयं शुभम्|| ७९|| SP1110801: देवैरध्यासितां तां तु सर्वैर्हस्तद्वयेन तु| SP1110802: विप्रेभ्यो मन्त्रवद्धस्ते प्रदद्यात्सुसमाहितः|| ८०|| SP1110811: कुशान्सुवर्णबीजानि तिलान्सिद्धार्थकांस्तथा| SP1110812: प्रदद्याद्धस्ततो ऽद्भिस्तु मन्त्रेणानेन सुव्रतः|| ८१|| SP1110821: सर्वदेवमयीं दोग्ध्रीं सर्वलोकमयीं तथा| SP1110822: सर्वलोकनिमित्ताय सर्वदेवनमस्कृताम्| SP1110823: प्रयच्छामि महासत्त्वामक्षयाय शुभामिति|| ८२|| SP1110831: एवं स दत्त्वा तां गां तु यत्र यत्र प्रजायते| SP1110832: तत्र तत्र गता सा तं जन्तुं तारयते ऽक्षया|| ८३|| SP1110841: तथा कामदुहा चैव सर्वलोकप्रदा तथा| SP1110842: सर्वज्ञानप्रदा चैव सर्वयज्ञफला तथा|| ८४|| SP1110851: सर्वांल् लोकांस्तया गत्वा रमते च यथामरः| SP1110852: इह जातश्च तामेव कामगां संप्रपद्यते|| ८५|| SP1110861: स तया मानुषो जातो गोसहस्री महाबलः| SP1110862: रूपवान्धनवांश्चैव बहुपुत्रश्च जायते|| ८६|| SP1110871: प्रसूयमानां यो गां तु दद्यादुभयतोमुखीम्| SP1110872: यथोक्तेन विधानेन स जातिस्मरतां लभेत्|| ८७|| SP1110881: यस्तु गां संप्रयच्छेत ब्राह्मणेभ्यो यथातथम्| SP1110882: तमप्यसौ भयाद्घोरात्त्रायते नरकादपि|| ८८|| SP1110891: कृष्णाजिनं तु यो दद्याद्व्रतिने ब्रह्मचारिणे| SP1110892: पृथिवीफलमाप्नोति योगश्चास्य प्रवर्तते|| ८९|| SP1110901: योगिभ्यो ब्रह्मचारिभ्यो ब्राह्मणेभ्यो यतात्मवान्| SP1110902: यः प्रयच्छेदावसथं सो ऽश्वमेधफलं लभेत्|| ९०|| SP1110911: आप्तोर्यामं पौण्डरीकं गोसहस्रं च विन्दति| SP1110912: स्मृतिं च परमां लब्ध्वा योगमाप्नोति सुव्रतः|| ९१|| SP1110921: कमण्डलुं तु यो दद्याद्ब्राह्मणाय नरोत्तमः| SP1110922: स तेन कर्मणा देवि धर्मनित्यत्वमाप्नुते|| ९२|| SP1110931: व्याधितं यस्तु विप्रर्षिं दीनं मूढमचेतसम्| SP1110932: उद्धरेत यथाशक्त्या स मुच्येद्ब्रह्महत्यया|| ९३|| SP1110941: यः सुवर्णं प्रयच्छेत दरिद्राय द्विजातये| SP1110942: दशानामश्वमेधानां फलं प्राप्नोति देवताः|| ९४|| SP1110951: यश्चैवेमानि सर्वाणि दानान्युक्तानि कृत्स्नशः| SP1110952: ददाति युगपद्देव्यः पृथिव्यां सैकराड्भवेत्|| ९५|| SP1110961: इदं यः शृणुयान्नित्यं दद्याच्चैव स्वशक्तितः| SP1110962: पठेत च महाभागाः सो ऽपि गच्छेत्त्रिपिष्टपम्|| ९६|| SP1119999: इति स्कन्दपुराण एकादशोत्तरशतो ऽध्यायः||