Skandapurāṇa Adhyāya 106 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1060010: सनत्कुमार उवाच| SP1060011: स तथाप्यायितो देवो बलवान्भास्करद्युतिः| SP1060012: चित्रं बहु च शीघ्रं च मण्डलानि परिभ्रमत्|| १|| SP1060021: प्लुतादि सिंहवत्कृत्वा अवलोकयतासकृत्| SP1060022: पृष्ठतश्चाग्रतश्चापि पुनर्गजवदाचरत्|| २|| SP1060031: पुनर्व्यात्ताननो भूत्वा शस्त्राणि ग्रसते रिपोः| SP1060032: पुनर्वृक्षैः शिलाभिश्च दानवान्स न्यसूदयत्|| ३|| SP1060041: पुनराकाशगो भूत्वा पक्षिराडिव सो ऽभ्रमत्| SP1060042: पुनर्जहास संक्रुद्ध अशनीपातसंनिभम्| SP1060043: पुनश्च सूक्ष्ममात्मानं कृत्वा तस्थावथाग्रतः|| ४|| SP1060051: एवं तं वल्गमानं च नर्दमानं च दानवः| SP1060052: उवाच भृकुटीवक्त्रो हिरण्याक्षो ऽभिनादयन्|| ५|| SP1060061: भो क्षुद्रमृग दुर्बुद्धे न त्वं मोक्षमवाप्स्यसि| SP1060062: हत्वा त्वाहं प्रदास्यामि रुद्राय बलिमोजसा|| ६|| SP1060071: त्वया हतश्छद्मना मे भ्राता ज्येष्ठो दुरात्मना| SP1060072: तस्याद्य कर्मणः प्राप्तं फलं दुष्टात्मनस्तव|| ७|| SP1060080: सनत्कुमार उवाच| SP1060081: तस्य तद्वचनं श्रुत्वा हिरण्याक्षस्य संयुगे| SP1060082: उवाच भगवान्विष्णुः क्रोधयानो दितेः सुतम्|| ८|| SP1060091: हतो ऽसौ नरसिंहेन मया दैत्यः प्रतापवान्| SP1060092: विक्रम्य संयुगे तद्वद्भवतो ऽपि वधो ध्रुवः|| ९|| SP1060101: यदि त्वं गच्छसे खं वा पातालं वाप्यतो ऽपरम्| SP1060102: पर्वतं वोदधिं वापि न तथापि विमोक्ष्यसे|| १०|| SP1060111: यत्ते बलं तपो यच्च या च माया तवासुर| SP1060112: तत्सर्वं निर्धमाम्यद्य तव देहात्सजीवितम्|| ११|| SP1060120: हिरण्याक्ष उवाच| SP1060121: त्वं मया शरविष्टब्धो देवैर्मन्त्रैर्विमोक्षितः| SP1060122: बद्धं चास्त्रेण भूयस्त्वां पक्षिराजो ह्यमोचयत्|| १२|| SP1060131: भूयो मृतश्च दुर्बुद्धे देवैरुज्जीवितो भवान्| SP1060132: भूयस्त्वाहं वधिष्यामि सिंहो मृगमिवाजने|| १३|| SP1060141: तव का शक्तिरद्येह महेश्वरमृते वरम्| SP1060142: मां स्प्रष्टुमपि हस्तेन नरस्येव हुताशनम्|| १४|| SP1060151: त्वं लोकमयमास्थाय शरीरं तैरधिष्ठितम्| SP1060152: सर्वैराप्यायितश्चैव संयुगे मामुपागतः| SP1060153: अहं तु स्वेन तपसा बलेन च समन्वितः|| १५|| SP1060161: न च मां त्वं तथाप्यद्य शक्तः सिंहं यथा मृगः| SP1060162: योद्धुं वाप्यभिसर्तुं वा सह देवैर्दुरात्मवान्| SP1060163: नन्वावयोरेतदेव ह्यन्तरं सुमहत्तरम्|| १६|| SP1060171: यः स्यात्कुलीनो विद्वान्वा सतां मार्गे च संस्थितः| SP1060172: सो ऽनेनैव जितं मत्वा आत्मानं संयुगं त्यजेत्|| १७|| SP1060181: निर्घृणस्त्यक्तलज्जश्च छिद्रघाती दुरात्मवान्| SP1060182: त्वदन्यः को भवेत्तिर्यङ्नैतद्दैत्येषु विद्यते|| १८|| SP1060191: न त्वं मम कृतो मृत्युरहं तु तव संयुगे| SP1060192: एते सिद्धाः प्रपश्यन्तु चारणाश्च सहस्रशः| SP1060193: आवयोरन्तरं संख्ये बहुधा युध्यमानयोः|| १९|| SP1060200: सनत्कुमार उवाच| SP1060201: एवमुक्त्वा हिरण्याक्षः शरैराशीविषोपमैः| SP1060202: जघ्ने वराहं संक्रुद्धो वज्राशनिसमत्विषम्|| २०|| SP1060211: सो ऽथ तेनार्द्यमानो ऽपि वराहः सुमहाबलः| SP1060212: गत्वा वेगेन संक्रुद्धो रथं जग्राह नादयन्|| २१|| SP1060221: गृहीत्वा कूबरे चापि आक्षिप्योत्क्षिप्य वेगवत्| SP1060222: साश्वं ससारथिं देवश्चिक्षेप च ररास च|| २२|| SP1060231: तस्य त्वाक्षेपविक्षेपैश्छिन्नयोक्त्रा बभुर्हयाः| SP1060232: उद्भ्रान्तो रथमुख्यश्च विसंधिः समपद्यत|| २३|| SP1060241: हिरण्याक्षो रथं त्यक्त्वा पदातिर्धनुषा तदा| SP1060242: मृगेन्द्रं मोहनास्त्रेण बलवानभ्यताडयत्|| २४|| SP1060251: मोहः समाविशच्चैव तं देवं नन्दिवर्धनम्| SP1060252: देवैर्मन्त्रप्रभावेन नष्टमोहः पुनः कृतः|| २५|| SP1060261: एष मन्त्रैर्बहुविधैर्दैत्येन्द्रो हि रुषान्वितः| SP1060262: आजघान न चाप्येनं रुजा स समयोजयत्|| २६|| SP1060271: अथैनं स महातेजा वराहः प्रहसन्निव| SP1060272: वृक्षमुत्पाट्य वेगेन दैत्यं मूर्ध्नि व्यताडयत्|| २७|| SP1060281: तस्य तेन प्रहारेण दैत्यस्याभिहतस्य ह| SP1060282: धनुः पपात वेगेन हस्ताद्बाणश्च पञ्चकः|| २८|| SP1060291: ततो हाहाकृतं दैत्यैर्दानवैश्च सुदुःखितैः| SP1060292: शस्त्रैश्च बहुभिः क्रुद्धा वराहं समताडयन्|| २९|| SP1060301: स हन्यमानस्तैर्दैत्यैर्व्यादाय सुमहाबलः| SP1060302: मुखं सर्वाणि शस्त्राणि जग्रास च ररास च|| ३०|| SP1060311: तं तथाविकृतं दृष्ट्वा हिरण्याक्षः प्रतापवान्| SP1060312: शूलं जग्राह संक्रुद्धः कृत्वा रुद्राय वै नमः|| ३१|| SP1060321: तद्युगान्तानलप्रख्यं महाशूलमतिप्रभम्| SP1060322: चिक्षेप दैत्यः संक्रुद्धो वराहाय महास्वनम्|| ३२|| SP1060331: तमापतन्तं बहुधा नदन्तं ज्वालास्फुलिङ्गाश्च समुद्गिरन्तम्| SP1060332: दृष्ट्वा सुराः सिद्धगणाश्च सर्वे हाहेति चक्रुर्भयमूढचित्ताः|| ३३|| SP1069999: इति स्कन्दपुराणे षडुत्तरशतो ऽध्यायः||