Skandapurāṇa Adhyāya 101 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1010010: सनत्कुमार उवाच| SP1010011: ते ऽभिनिर्गत्य वेगेन दंशिता दैत्यदानवाः| SP1010012: वराहं प्रति संजग्मुर्मृगाः सिंहमिवातुराः|| १|| SP1010021: ते वराहदृशा तेन नीयमानासुरेश्वराः| SP1010022: आभान्ति व्यास संबद्धाः प्रोक्षिताः पशवो यथा|| २|| SP1010031: तान्निहत्य कृतान्तेन मृत्युना चावपाशितान्| SP1010032: निनाय स तदा दैत्यान्पशूनिव यथा नरः|| ३|| SP1010041: गत्वा ते योजनान्यष्टौ उत्तीर्णं सागराम्भसः| SP1010042: वराहं ददृशुः सर्वे सिंहं क्षुद्रमृगा इव|| ४|| SP1010051: ते मुहूर्तं निरीक्ष्यैनं परिवव्रुः समन्ततः| SP1010052: विस्फारयन्तश्चापानि संक्रुद्धा दैत्यदानवाः|| ५|| SP1010061: तानापतत एवाथ निरीक्ष्य स समन्ततः| SP1010062: वराहेन्द्रस्तदा दैत्यान्प्राहेदं सुमहाबलः|| ६|| SP1010070: वराह उवाच| SP1010071: किं मा यूयं दितेः पुत्रा अभिद्रवत सर्वशः| SP1010072: दूषयामि न वः किंचिदसुहृन्न च वो ह्यहम्|| ७|| SP1010081: अथैवंवादिनं दैत्या वराहं तं सुविस्मिताः| SP1010082: पप्रच्छुः परिवार्यैव सर्वे दितिसुतास्तदा|| ८|| SP1010091: कस्त्वं वराहरूपीह तीर्त्वा सागरमूर्जितः| SP1010092: इहागतः किमर्थं वा क्व वा गन्तव्यमित्युत|| ९|| SP1010101: तेषां तद्वचनं श्रुत्वा वराहो ऽसौ महामनाः| SP1010102: उवाच दानवान्सर्वांस्तदा जलदनिस्वनः|| १०|| SP1010111: वराहो ऽहं यथा दैत्यास्तादृग्रूपं च पश्यत| SP1010112: प्रचारार्थमिमं देशमागतो ऽस्मि न संशयः|| ११|| SP1010121: हृतभार्यो ऽहमन्येन विमना दैत्यपुंगवाः| SP1010122: पर्यटंस्तस्य दुष्टस्य चिन्तयामि परिग्रहम्|| १२|| SP1010130: दानवा ऊचुः| SP1010131: नायं प्रचारो युष्माकं दैत्यानामयमालयः| SP1010132: अनादृत्य कथं दैत्यानिमं देशमुपागतः|| १३|| SP1010141: वयं त्वाद्य वधिष्यामः सर्वे मृगकुलाधम| SP1010142: हत्वा च ते नयिष्याम सर्वे दैत्येश्वरं प्रति|| १४|| SP1010151: ततस्ते दानवाः सर्वे तमायुधवरैर्भृशम्| SP1010152: निजघ्नुः पर्वतं यद्वन्मेघा वृष्ट्या समुन्नताः|| १५|| SP1010161: बलवान्सो ऽपि देवात्मा वराहः सुमहाबलः| SP1010162: वध्यमानो ऽपि तान्दैत्यानिदं वचनमब्रवीत्|| १६|| SP1010171: न ह्यत्र भवतां किंचिदल्पमप्यसुरोत्तमाः| SP1010172: अपराधं चकाराहं न करिष्ये करोमि वा|| १७|| SP1010181: किमर्थं मां शितैः शस्त्रैर्घ्नत सर्वे यथा परम्| SP1010182: न हि नो वैरमस्तीह न च कार्यं मया हि वः|| १८|| SP1010191: अथ मांसेन कृत्यं वो ततो मा घ्नत दानवाः| SP1010192: यथाप्राणं शितैः शस्त्रैर्युष्मत्तो न हि मे भयम्|| १९|| SP1010201: एतौ करौ प्रसार्याहं संस्थितो दितिनन्दनाः| SP1010202: यदा भवन्तः स्थास्यन्ति तदा हन्तास्मि वः सकृत्|| २०|| SP1010211: अद्य वेत्स्यत दैतेया मृगाणामपि यद्बलम्| SP1010212: मत्ता यूयं सुराञ्जित्वा तन्मदं नाशयामि वः|| २१|| SP1010220: सनत्कुमार उवाच| SP1010221: ततः स भगवान्व्यास शक्रध्वजनिभौ भुजौ| SP1010222: प्रसार्य तस्थावुद्यन्वै भगवानिव भास्करः|| २२|| SP1010231: ते ऽपि तद्वचनं श्रुत्वा दानवाः क्रोधमूर्छिताः| SP1010232: निजघ्नुर्भृशमायस्ता नानाशस्त्रास्त्रपाणयः|| २३|| SP1010241: मेघैरिव महावायुर्गरुत्मान्भुजगैरिव| SP1010242: मृगैरिव यथा व्याघ्रः शशैः सिंहशिशुर्यथा| SP1010243: हविषेवानलो दीप्तो गजो गोमायुभिर्यथा|| २४|| SP1010251: तथा स भगवान्व्यास वराहो नन्दिवर्धनः| SP1010252: तैरर्द्यमानो ऽगणयंस्तस्थावचलसंनिभः|| २५|| SP1010261: स यदा तैः शरैश्चैव गदामुसलकम्पनैः| SP1010262: भिन्दिपालैर्भुसुण्डीभिः करवालैरयोमुखैः|| २६|| SP1010271: एतैश्चान्यैश्च बहुभिर्वध्यमानो मृगेश्वरः| SP1010272: अदृश्यो विबभौ सर्वे तदा ते हर्षिता भृशम्|| २७|| SP1010280: सनत्कुमार उवाच| SP1010281: तेषां निनदतां व्यास वराहो नन्दिवर्धनः| SP1010282: शस्त्रकूटाद्विनिष्क्रम्य शिरांसि समपोथयत्|| २८|| SP1010291: कराभ्यां चरणाभ्यां च दंष्ट्राभिश्च विदारयन्| SP1010292: तन्मुक्तैरायुधैश्चापि चिच्छेदान्यान्ररास च|| २९|| SP1010301: ते सर्वे करचरणैः स्वमुक्तशस्त्रैर्दंष्ट्राभिर्नखमुखदारितास्तथैव| SP1010302: संक्षीणा बहुभिरिवोपभुज्यमाना द्रव्याणामतिनिचयाः सदा महान्तः|| ३०|| SP1019999: इति स्कन्दपुराण एकोत्तरशतो ऽध्यायः||