Skandapurāṇa Adhyāya 100 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1000010: सनत्कुमार उवाच| SP1000011: तस्मिन्भये समापन्ने विनाशभयसूचकाः| SP1000012: हिरण्याक्षपुरे घोरा उत्पाता ह्यभवंस्तदा|| १|| SP1000021: अट्टालका विशीर्यन्ते देवतार्चा हसन्ति च| SP1000022: शिवा नदन्ति दैत्यानां गृहेषु च सभासु च|| २|| SP1000031: अकस्माच्चाभवत्तत्र पौराणां भैरवो रवः| SP1000032: पादपाश्च विना वातं पतन्त्युन्मूलिता भुवि| SP1000033: भास्करश्च कबन्धान्धो युद्धं चाप्यत्र दृश्यते|| ३|| SP1000040: सनत्कुमार उवाच| SP1000041: एतान्यन्यानि च तदा निमित्तानि महान्ति च| SP1000042: संलक्ष्य राजा दैत्यानामसुरानिदमब्रवीत्|| ४|| SP1000051: निमित्तान्यभिलक्ष्यन्ते महान्त्यसुरपुंगवाः| SP1000052: नैव तान्यनिमित्तानि दृश्यते च भयं महत्|| ५|| SP1000061: हृतराज्याश्च देवेशा न ते स्थास्यन्ति निष्क्रियाः| SP1000062: नूनं ते किंचिदाश्रित्य कुर्वन्ति समरं प्रति|| ६|| SP1000070: सनत्कुमार उवाच| SP1000071: तस्य तद्वचनं श्रुत्वा प्रह्लादो ऽसुरसत्तमः| SP1000072: प्रणम्य पितरं सम्यगिदं वचनमब्रवीत्|| ७|| SP1000080: प्रह्लाद उवाच| SP1000081: सुतो ऽहं तव दैत्येन्द्र पिता त्वं मम धर्मतः| SP1000082: न तवास्मद्विधे बुद्धिराधेया दैत्यसत्तम|| ८|| SP1000091: तथापि तु वयं प्रीत्या इच्छन्तो राज्यमक्षयम्| SP1000092: वक्ष्यामो बालभावेन तन्नः संस्मर्तुमर्हसि|| ९|| SP1000101: अद्य रात्रौ मया स्वप्ने दृष्टो ऽसौ नररूपवान्| SP1000102: वराहरूपी संगत्य भवन्तं निगृहीतवान्| SP1000103: न तथा तद्यथा स्याद्धि तथा त्वं सम्यगाचर|| १०|| SP1000110: हिरण्याक्ष उवाच| SP1000111: एवमेतन्न संदेहो भवान्धर्मरतः सदा| SP1000112: दृष्टवांस्तद्यथातत्त्वमेवमेतन्न संशयः|| ११|| SP1000121: अहमद्य गतः स्वप्ने त्र्यम्बकस्य निवेशनम्| SP1000122: नतं च मामिदं प्राह भगवान्गोवृषध्वजः|| १२|| SP1000131: एतावद्भवतो दैत्य राज्यमिन्द्रत्वमेव च| SP1000132: यच्छेमां त्वं श्रियं पुत्र सहस्राक्षाय सुप्रभाम्|| १३|| SP1000141: शनैराछिद्य मुक्त्वैव मुकुटं हारमेव च| SP1000142: केयूरे चाङ्गदे चैव खड्गं रुचकमेव च|| १४|| SP1000151: कटके शासनं चैव दुकूलं च तथोत्तमम्| SP1000152: अनिच्छतो मे संगृह्य शक्राय प्रददौ तदा|| १५|| SP1000161: ततो मां भगवानाह मत्समीपे त्वया सदा| SP1000162: काल्यं प्रभृति वस्तव्यं दिव्ये राज्ये न दैत्यप|| १६|| SP1000171: यदेतद्धि मया दृष्टं नैतन्मिथ्या भविष्यति| SP1000172: सर्वथा नास्ति दैत्यानां मयैकेन भयं त्विह|| १७|| SP1000180: सनत्कुमार उवाच| SP1000181: तस्य तद्वचनं श्रुत्वा दैत्याः सर्वे तदाब्रुवन्| SP1000182: मिथ्यैतत्स्वप्नगतयो मिथ्या राजन्प्रकीर्तिताः|| १८|| SP1000191: अन्धको ऽसहितो ऽस्माभिर्योत्स्यते देवतैः सह| SP1000192: यो ऽवध्यः सर्वभूतानां बलवानजितश्च ह|| १९|| SP1000201: तमाश्रित्य वयं सर्वे योत्स्यामो विज्वराः सुखम्| SP1000202: मा युध्यतु भवान्सार्धं सुरैः सुरबलार्दनः|| २०|| SP1000211: त्वयि प्राणाः स्थिताः सर्वे दैत्यानां दानवैः सह| SP1000212: त्वयि जीवति जीवाम त्वं चेन्नासि कुतो वयम्| SP1000213: त्यक्त्वा वा स्वपुरं सर्वे प्रविशाम महोदधिम्|| २१|| SP1000220: सनत्कुमार उवाच| SP1000221: तेषां तद्वचनं श्रुत्वा हिरण्याक्षो महासुरः| SP1000222: प्रहस्य तानिदं सम्यगुवाच वदतां वरः|| २२|| SP1000231: स्रष्टायं सर्वभूतानां दाता हर्ता तथैव च| SP1000232: विहितं तेन यत्पूर्वं तत्कुर्यात्को ऽन्यथा पुनः|| २३|| SP1000241: यदि मृत्युरवश्यं मे विहितस्तेन दानवाः| SP1000242: अयुध्यमानमासीनमेत्यासौ मां हनिष्यति|| २४|| SP1000251: वीक्षध्वं तन्मम स्थानं सर्व एवासुरोत्तमाः| SP1000252: यत्र तिष्ठन्तमभ्येत्य न मां मृत्युर्नयिष्यति|| २५|| SP1000261: अथवा नैव मृत्युर्मे विहितस्तेन दानवाः| SP1000262: युध्यमानं यथापूर्वं नैव मां स नयिष्यति|| २६|| SP1000271: मादृशः कथमेवैतत्कुर्यात्सद्भिर्विगर्हितम्| SP1000272: बाले मृत्युं समावेश्य ततश्चात्माभिरक्षणम्|| २७|| SP1000281: रणे रिपूणां कदनं कृत्वैकश्चाप्यनेकशः| SP1000282: पृष्ठं दद्यात्पुनस्तेषां मादृशो दानवेश्वराः|| २८|| SP1000290: विप्रचित्तिरुवाच| SP1000291: देवा ह्यनेकशः सर्वे जिता नष्टाश्च सर्वशः| SP1000292: पुनश्चायान्ति न यथा तथा सर्वे यतामहे|| २९|| SP1000300: हिरण्याक्ष उवाच| SP1000301: अमरं देवता ज्ञात्वा स्वमात्मानं सुदुर्बलाः| SP1000302: जीवन्तः सुचिरेणापि भूयो लप्स्यामहे वयम्| SP1000303: राज्यमेवं विजानन्तो विपलायन्ति नित्यशः|| ३०|| SP1000311: अस्माकममरत्वं तु नैवास्त्यसुरोत्तमाः| SP1000312: नष्टानामप्यतो ऽस्माकं जीविताशा न विद्यते| SP1000313: तस्यामसत्यां पश्याम यत्प्राप्तं तद्धि नो वरम्|| ३१|| SP1000321: मा कृथा नशने बुद्धिं युद्धे बुद्धिः स्थिरा मम| SP1000322: सुयुद्धेन रणे प्राणा यान्तु मा क्लीववद्धि नः|| ३२|| SP1000330: सनत्कुमार उवाच| SP1000331: तेषामेवं तु वदतां सभायां सुरविद्विषाम्| SP1000332: वेगश्वासाभिसंरब्धो दानवः प्रत्यदृश्यत|| ३३|| SP1000341: तिर्यक्संत्रासित इव मृगराजेन निर्जने| SP1000342: करीव सिंहपातेन गरुडेनेव पन्नगः|| ३४|| SP1000351: तदा स बद्धमुष्टिश्च दिशः सर्वा विलोकयन्| SP1000352: वेगेन निश्वसन्गत्वा द्वारि द्वाःस्थमभाषत|| ३५|| SP1000360: दानव उवाच| SP1000361: आवेदय सभापाल राज्ञे प्राप्तो नलः स्वयम्| SP1000362: सागरारक्षिकः क्षिप्रमकालं शीघ्रमुच्यते|| ३६|| SP1000371: ततः प्रहस्य तं द्वाःस्थः सभापालेति भाषितः| SP1000372: उवाच मा भीर्भवतु कुतो भयमिहासुर|| ३७|| SP1000381: नेह सिंहो ऽस्ति चोरो वा नान्यः श्वापद-म्-इत्यपि| SP1000382: न गावः पशवो ऽन्ये वा भयं त्यज समाश्वस|| ३८|| SP1000391: स तथा तेन संप्रोक्तः शान्तश्चासुरपुंगवः| SP1000392: क्रुद्धः शब्दं तदा चक्रे महान्तं नादयन्दिशः|| ३९|| SP1000401: ते ऽभिगम्य तदा व्यास राजानं दानवेश्वरम्| SP1000402: ऊचुरेष किमप्यद्य दृष्टं कथयते ऽसुरः|| ४०|| SP1000411: स राजा सम्यगाश्वास्य दैत्यमेनं महायशाः| SP1000412: दानवानां हितार्थाय पृच्छस्व दितिनन्दनः|| ४१|| SP1000421: तेषां स राजा विप्रेन्द्र दानवानां महाबलः| SP1000422: श्रुत्वा तं दानवं व्यास इदं वचनमब्रवीत्|| ४२|| SP1000431: भयं नश्यतु ते दैत्य मत्समीपे ऽभिवर्ततः| SP1000432: ब्रूहि सर्वं यथादृष्टं समाश्वस्य यथातथम्|| ४३|| SP1000440: सनत्कुमार उवाच| SP1000441: ततः स दानवो व्यास राजानं विगतज्वरः| SP1000442: प्रणम्य प्राञ्जलिर्वाक्यमिदं सम्यगुवाच ह|| ४४|| SP1000451: नित्यं जयतु नो राजा दानवानां सुखावहः| SP1000452: नशन्तु विद्विषः सर्वे ये ऽस्माकमहितावहाः|| ४५|| SP1000461: अहं तवाज्ञया राजन्विचरामि दिने दिने| SP1000462: सागरान्तं महाराज पुरुषैः सह संगतः|| ४६|| SP1000471: सो ऽद्य पश्याम्यहं तत्र वाराहं दैत्यपुंगव| SP1000472: मेरुशृङ्गप्रतीकाशं ज्वलन्तमिव पावकम्|| ४७|| SP1000481: तस्य गात्रेषु दृश्यन्ति सूक्ष्मरूपधराः स्थिताः| SP1000482: सर्वे सुरा महाराज ऋषयश्च तपोधनाः|| ४८|| SP1000491: महाबलस्त्वं राजेन्द्र देवानां भयदः सदा| SP1000492: त्वत्तो ऽपि सुमहान्भीमस्तादृग्रूपो न विद्यते| SP1000493: न दृष्टो न श्रुतो वापि वपुषा दैत्यपुंगव|| ४९|| SP1000501: अहं तेनाहतो दृष्ट्या न्यपतं भूतले भृशम्| SP1000502: स्रस्तहाराम्बरो भीतः कुलिशेनेव ताडितः|| ५०|| SP1000511: ये ममानुचराश्चासन्दानवा भीमविक्रमाः| SP1000512: ते सर्वे तस्य वेगेन पतिता गतजीविताः|| ५१|| SP1000521: स एषो ऽभ्येति राजेन्द्र तवैव नगरं प्रति| SP1000522: चालयन्वसुधां सर्वां क्षोभयन्सागरांस्तथा| SP1000523: जलेचरांश्च दैत्येन्द्र जीवितैर्विप्रयोजयन्|| ५२|| SP1000530: सनत्कुमार उवाच| SP1000531: तस्य तद्वचनं श्रुत्वा प्रह्लादो ऽसुरसत्तमः| SP1000532: उवाच दैत्यराजानमिदं वचनकोविदः|| ५३|| SP1000540: प्रह्लाद उवाच| SP1000541: यादृशं तद्वराहस्य तस्य रूपं त्वया श्रुतम्| SP1000542: सर्वदेवमयं राजन्वराहो ऽप्राकृतो मतः|| ५४|| SP1000551: तस्मात्तथा विधातव्यं यथा नो न स मोहयेत्| SP1000552: अधितिष्ठेत दैत्येन्द्र माचिरं तद्विधीयताम्|| ५५|| SP1000561: सुव्यक्तं ब्रह्मणा तस्य चक्रलाङ्गलधारिणः| SP1000562: सर्वदेवमयं रूपं वाराहमिदमीहितम्|| ५६|| SP1000571: भवानवध्यः सर्वेषां देवानां दानवेश्वरः| SP1000572: अशक्तैस्तैरियं माया सृष्टा वै न तदन्यथा|| ५७|| SP1000580: सनत्कुमार उवाच| SP1000581: तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान्| SP1000582: उवाच दैत्यान्दनुजानिदं वचनमर्थवत्|| ५८|| SP1000590: हिरण्याक्ष उवाच| SP1000591: यद्यद्य भ्रातृहन्ता मे इहायाति दुरात्मवान्| SP1000592: पूर्णः स्यादद्य सुचिराद्यो मे हृदि मनोरथः|| ५९|| SP1000601: अद्याहं तं दुरात्मानं भ्रातृहन्तारमाहवे| SP1000602: छित्वा छित्वा करिष्यामि बलिं पशुपतेः शुभाम्|| ६०|| SP1000611: अद्य तस्य विचित्राक्षं शिरः कायात्सकुण्डलम्| SP1000612: उत्कृत्य दैत्या दास्यामि रुद्राय परमात्मने|| ६१|| SP1000621: मया नासादितः पूर्वं तस्मिन्युद्धे स केशवः| SP1000622: अद्याहं तं समासाद्य नेष्यामि यमसादनम्|| ६२|| SP1000631: अद्य तस्मिन्हते सर्वे निराशा भयविह्वलाः| SP1000632: ममैव कार्यतां गत्वा देवा यास्यन्ति दासताम्|| ६३|| SP1000640: सनत्कुमार उवाच| SP1000641: ततः स दानवाञ्छूरान्दैत्यांश्च सुमहाबलान्| SP1000642: उवाच नाम्ना विख्यातान्किंकरान्नाम दानवान्|| ६४|| SP1000651: दश तानि सहस्राणि गच्छध्वं तं महाबलाः| SP1000652: जानीत को ऽयमित्येवं ततो यास्याम्यहं स्वयम्|| ६५|| SP1000661: ते तथोक्ता महामाया हृष्टाः सर्वे विनिर्गताः| SP1000662: बद्धगोधाङ्गुलित्राणाः संनद्धास्तु पदातयः|| ६६|| SP1000671: ते हेमचित्राम्बरहारसूत्रा महाबला दानवदैत्यपुत्राः| SP1000672: विनादयन्तो बहुधातिकोपिता यथैव नागाः सविषा विनिर्ययुः|| ६७|| SP1009999: इति स्कन्दपुराणे शततमो ऽध्यायः||