Skandapurāṇa Adhyāya 93 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0930010: सनत्कुमार उवाच| SP0930011: अथासौ तेन कालेन केतुरग्नेः समुत्थितः| SP0930012: वायुनाभिहतश्चैव अगच्छद्विलयं भृशम्|| १|| SP0930021: ततः समभवद्व्योम विमलं सर्वमेव ह| SP0930022: अपश्यन्त सुराः सर्वे दैत्याश्चैव परस्परम्|| २|| SP0930031: ततः शङ्खाश्च भेर्यश्च पटहाडम्बरास्तथा| SP0930032: सुघोषका डिण्डिमाश्च भम्भाः पेप्वश्च सर्वशः| SP0930033: बलद्वये ऽप्यवाद्यन्त शतशो ऽथ सहस्रशः|| ३|| SP0930041: अथ शक्रश्च देवेन्द्रो यमो वैश्रवणस्तथा| SP0930042: पूषा भगश्च द्वावेतावर्यमा मित्र एव च|| ४|| SP0930051: जयन्तो मरुतश्चैव रुद्रादित्याश्च सर्वशः| SP0930052: वेगेन सुमहावेगा ममृदुर्दानवं बलम्|| ५|| SP0930061: तत्र चामीकराभासं प्रगृह्य बलवद्धनुः| SP0930062: यमः पुण्ड्रेण दैत्येन्द्राननयद्यमसादनम्|| ६|| SP0930071: स पञ्चभिः शरैर्विद्ध्वा हिरण्याक्षं महाबलम्| SP0930072: अन्यांश्चैकैकशः सर्वाञ्जहास च ननाद च|| ७|| SP0930081: तस्य सर्वे तदायस्ता दैत्यदानवसत्तमाः| SP0930082: शरानाशीविषाकारान्व्यसृजन्विकृताननाः|| ८|| SP0930091: तान्स चिच्छेद समरे त्रिधैकैकं लघुक्रियः| SP0930092: पुनश्च निशितैर्घोरैरर्दयत्प्रहसन्निव|| ९|| SP0930101: ततो ऽन्धकस्य यन्तारं रथं च सह वाजिभिः| SP0930102: किंकरेण महावीर्यो यमो निन्ये स्वकं पुरम्|| १०|| SP0930111: ततो ऽन्धको गदापाणिर्युगान्ताम्बुदवन्नदन्| SP0930112: अभ्यधावद्यमं तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्|| ११|| SP0930121: तस्य वज्रेण देवेन्द्रो गदां हेमपरिष्कृताम्| SP0930122: बिभेद शतधा व्यास सापतद्भुव्यसुप्रभा|| १२|| SP0930131: तं विशस्त्रं विकवचं कृत्वा ते देवसत्तमाः| SP0930132: युगपच्छस्त्रवर्षेण ताडयामासुराहवे|| १३|| SP0930141: यमो दण्डेन तं मूर्ध्नि शक्रो वज्रेण चाहनत्| SP0930142: वित्तदो ऽशनिना चैव पाशेन वरुणस्तथा|| १४|| SP0930151: अन्ये चान्यैस्तथा देवा अमोघैरायुधोत्तमैः| SP0930152: अभ्यधावन्त संरब्धा हतस्त्वमितिवादिनः| SP0930153: न चैव तस्य दैत्यस्य दुःखं तत्राभवत्तदा|| १५|| SP0930161: सो ऽपि दैत्यस्तदोत्पत्य पुण्ड्रस्यास्थाय पृष्ठतः| SP0930162: यमं मुष्टिप्रहारेण पुण्ड्राद्भूमावपातयत्|| १६|| SP0930171: तथेन्द्रस्य गजं भूयो पुच्छे संगृह्य वेगवान्| SP0930172: भ्रामयित्वाक्षिपद्दूरं नष्टस्त्वमिति चाब्रवीत्|| १७|| SP0930181: ततो धनेशस्य पुनः शिबिकां कामगामिनीम्| SP0930182: आक्षिप्य बहुधा दैत्यो व्यधमत्क्रोधमूर्छितः|| १८|| SP0930191: ततो गजैर्गजान्निघ्नन्पदातींश्च पदातिभिः| SP0930192: रथं रथेन च रणे हयांश्च हयसादिभिः|| १९|| SP0930201: पुनर्गजं महेन्द्रस्य हन्यमानो ऽपि संयुगे| SP0930202: अवप्रुत्य तदा शक्रं गजस्कन्धान्न्यपातयत्|| २०|| SP0930211: तस्य तत्कर्म संवीक्ष्य दानवेन्द्रस्य संयुगे| SP0930212: सर्वे देवा दिशः सर्वाः प्रनष्टा जीवितार्थिनः|| २१|| SP0930221: पूर्वेण भगवानिन्द्रः सहादित्यैः सलोकपः| SP0930222: दक्षिणेन तथा रुद्रा वसवश्चाश्विनावपि|| २२|| SP0930231: प्रतीचीं यक्षरक्षांसि पिशाचाः पन्नगैः सह| SP0930232: उत्तरेण तथान्ये च प्रपद्यन्त यथा मृगाः|| २३|| SP0930241: तेषु भग्नेषु दैत्येन्द्राः पृष्ठतो विकृतायुधाः| SP0930242: अभ्यधावन्त गर्जन्तो भयं तेषां व्यदर्शयन्|| २४|| SP0930251: ततो मुहूर्तं ते गत्वा हिरण्याक्षेण वारिताः| SP0930252: निवृत्ताः समतिष्ठन्त सर्वे ऽमर्षवशंगताः|| २५|| SP0930261: अथोवाच तदा क्रुद्धान्हिरण्याक्षो हसन्निव| SP0930262: दैत्यदानवनाथांस्तानिदं वचनकोविदः|| २६|| SP0930271: किमेभिरबलैरद्य युष्माकं दैत्यदानवाः| SP0930272: अवबद्धैश्च रुद्धैश्च मृतसंज्ञैर्दुरात्मभिः|| २७|| SP0930281: हतास्ते नात्र संदेहो येषां राज्यमिदं हृतम्| SP0930282: नैषां जीवितमस्त्यद्य मा त्वरध्वं सुबालिशाः|| २८|| SP0930291: अबला अपि संरब्धा निराशा जीविते ऽपि च| SP0930292: भवन्त्यतिबलाश्चैव दुर्जयाश्च न संशयः|| २९|| SP0930301: सहसोत्पतितानां च निराशानां च जीविते| SP0930302: न शक्यमग्रतः स्थातुमित्युवाच सदोशना|| ३०|| SP0930311: यदेतद्राज्यमित्याहुः प्राणा ह्येते महात्मनाम्| SP0930312: स तेषां हरति प्राणान्यस्तेषां राज्यमाहरेत्|| ३१|| SP0930321: तेषामद्य हृतं राज्यं किं तैर्मृतसमैः सुरैः| SP0930322: आपूरयाम स्थानानि देवानां दानवेश्वराः|| ३२|| SP0930330: सनत्कुमार उवाच| SP0930331: ततस्ते सहिरण्याक्षाः प्राविशन्नमरावतीम्| SP0930332: रत्नानि जगृहुर्व्यास विजयं चावघोषयन्|| ३३|| SP0930341: आरक्षमात्मनस्तत्र चक्रुराप्तैश्च ते ऽसुराः| SP0930342: आश्वासयन्त पौरांश्च तथा प्रकृतयश्च ह|| ३४|| SP0930351: पौरापि हि तदार्घेण तथैवोपायनैर्वरैः| SP0930352: आशीर्भिश्चासुरश्रेष्ठं हिरण्याक्षं प्रणेमिरे|| ३५|| SP0930361: तान्समाश्वास्य दैत्येन्द्रो ह्यध्यास्य च वरासनम्| SP0930362: कार्याणि कृत्वा सर्वेषामगच्छद्वरुणालयम्|| ३६|| SP0930371: ते सिंहनादैर्विविधैश्च वाद्यैः प्रवल्गनास्फोटितकूजितैश्च| SP0930372: महासुरा दानवराजसिंहं जग्मुः समन्तात्परिवार्य सर्वे|| ३७|| SP0939999: इति स्कन्दपुराणे त्रिणवतितमो ऽध्यायः||