Skandapurāṇa Adhyāya 88 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0880010: सनत्कुमार उवाच| SP0880011: अर्यमा बहुभिर्बाणैः प्रह्लादं दैत्यपुंगवम्| SP0880012: आजघान नदन्घोरं ध्वजं चास्य व्यशातयत्|| १|| SP0880021: प्रह्लादो ऽप्यर्यमन्तं वै रथं त्यक्त्वैव वीर्यवान्| SP0880022: प्रदुद्राव यथा राहुः समये तिमिरापहम्|| २|| SP0880031: आधावन्तं च वेगेन विहस्तं रिपुमर्यमा| SP0880032: जघान बहुभिर्बाणैः प्रह्लादं दैत्यपुंगवम्|| ३|| SP0880041: शरानगणयन्नेव हिरण्यकशिपोः सुतः| SP0880042: क्रोधान्मानाच्च दर्पाच्च वेगेन समधावत|| ४|| SP0880051: गृहीत्वा कूबरे तस्य रथं हेमपरिष्कृतम्| SP0880052: चिक्षेप सह सूतेन ततो हर्षान्ननाद च|| ५|| SP0880061: अनुह्लादो धरं प्राप्य तेन विद्धः स्तनान्तरे| SP0880062: असिं निष्कृष्य वेगेन धरस्य रथमासदत्|| ६|| SP0880071: ध्वजमीषां हयांश्चैव सारथिं धनुरेव च| SP0880072: छित्त्वा स्कन्धे धरं चैव पुनः स्वरथमभ्यगात्|| ७|| SP0880081: कर्मणा तेन दैत्यस्य धरो भयसमीरितः| SP0880082: अनुह्लादं ततस्त्यक्त्वा ययाविन्दुरथं प्रति|| ८|| SP0880091: ध्रुवस्तु ह्रदमासाद्य कृत्वा युद्धं महाभयम्| SP0880092: माययाभिजितो युद्धे प्राद्रवद्भयपीडितः|| ९|| SP0880101: एवमन्यैश्च दैत्येन्द्रैरन्ये देवा महाबलाः| SP0880102: निर्जितास्तर्जिताश्चैव युद्धाय च पुनः स्थिताः|| १०|| SP0880111: ततः संकुलमेवाभूद्देवानां दानवैः सह| SP0880112: परस्परजिगीषूणां युद्धं भीरुभयावहम्|| ११|| SP0880121: ततो भेर्यश्च शङ्खाश्च पटहाः सैकपुष्कराः| SP0880122: झर्झर्यः पेपुकाश्चैव डिण्डिमा गोविषाणिकाः| SP0880123: अवाद्यन्त बले व्यास उभयेषां सहस्रशः|| १२|| SP0880131: ततो ऽसृगोघप्रभवा पताकाध्वजपादपा| SP0880132: गजाश्वग्राहबहुला रथप्रवरकच्छपा|| १३|| SP0880141: केशशैवालबहुला धनुर्ज्याकृततन्तुका| SP0880142: निष्टनन्तोग्रमण्डूका दुकूलच्छत्रफेनिला|| १४|| SP0880151: उष्णीषवरहंसा च करपादशिरोपला| SP0880152: हारकेयूरसिकता मुकुटोत्फुल्लपङ्कजा|| १५|| SP0880161: मनुष्यकफपङ्का च प्राणजीवितनाशनी| SP0880162: प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी|| १६|| SP0880171: तस्यां स्नायन्ति रक्षांसि पिबन्ति च रमन्ति च| SP0880172: नृत्यन्ते चापि विविधा भीरूणां भयदास्तदा|| १७|| SP0880181: गृध्रा गोमायवश्चैव शुनो जर्जरवायसाः| SP0880182: चक्षूंषि करपादान्त्रान्भक्षयन्तो दिने दिने|| १८|| SP0880191: ममायं हस्तिनः पादो ममायं मेदपट्टकः| SP0880192: ममायं च करः शुभ्रो ह्रदश्च रुधिरस्य ह|| १९|| SP0880201: ममायं तव नायं च गृह्ण पश्येति चैव हि| SP0880202: कलहं चक्रिरे तत्र क्रूराः पिशितभोजनाः|| २०|| SP0880211: त्यक्त्वान्ये च हतास्तत्र स्वदेहान्सुमहारथाः| SP0880212: विमानैः स्त्रीजनाकीर्णैः प्रययुर्ब्रह्मणः सदम्|| २१|| SP0880221: अपरे पापकर्माणो हन्यमाना रुषान्वितैः| SP0880222: पतन्ति नरके घोरे क्रन्दमाना मुहुर्मुहुः|| २२|| SP0880231: केचिदार्तस्वरं कृत्वा याचमानास्तृडार्दिताः| SP0880232: म्रियन्ते पुरुषा युद्धे शतशो ऽथ सहस्रशः|| २३|| SP0880241: दशन्तश्च तृणान्यन्ये तात पुत्रेति चापरे| SP0880242: क्रन्दमाना नरा भीताः प्राणान्कृच्छ्रेण तत्यजुः|| २४|| SP0880251: संदष्टौष्ठपुटाः केचिद्देवासुरमहारथाः| SP0880252: शरसंभिन्नमर्माणः पतन्त्युर्व्यां द्रुमा इव|| २५|| SP0880261: अशिवानि शिवा नेदुरट्टहासांश्च राक्षसाः| SP0880262: आर्तनादांश्च पुरुषास्तथैव गजवाजिनः|| २६|| SP0880271: सिंहनादाश्च शूराणां बाहुशब्दाश्च पुष्कलाः| SP0880272: धनुषां कृष्यमाणानां शब्दो वाद्यरवस्तथा|| २७|| SP0880281: अथेन्द्रश्च धनेशश्च यमः कालश्च वीर्यवान्| SP0880282: वरुणो मरुतश्चैव विश्वेदेवाश्च सर्वशः|| २८|| SP0880291: मित्रश्चैव जयन्तश्च भगः पूषार्यमा तथा| SP0880292: कापाली चापि यो रुद्रो वसवश्च महाबलाः| SP0880293: नासत्यश्चैव दस्रश्च पृश्नयश्च सुरोत्तमाः|| २९|| SP0880301: एते चान्ये च देवानां प्रवरा बाहुशालिनः| SP0880302: दानवानां बले वेगं वेगवन्तो ऽभिचक्रिरे|| ३०|| SP0880311: सागरा इव गर्जन्तो युगान्ते अनला इव| SP0880312: प्रभञ्जना इवाकाले महान्त इव चाचलाः|| ३१|| SP0880321: वृषभा इव नर्दन्तो बृंहन्त इव कुञ्जराः| SP0880322: ग्रसन्तश्च यथा ग्राहाश्छिन्दन्तो मकरा इव|| ३२|| SP0880331: वर्षमाणा इव घनाः सिंहा इव च नर्दनाः| SP0880332: दानवानां बलं सर्वे वेगेनैव व्यनाशयन्|| ३३|| SP0880341: तद्देववेगप्रहतातिवेगं बलं समन्ताद्दनुदानवानाम्| SP0880342: भवत्यनाधारमतिप्रसक्तं तृणं यथा वह्निमुखावसक्तम्|| ३४|| SP0889999: इति स्कन्दपुराणे ऽष्टाशीतितमो ऽध्यायः||