Skandapurāṇa Adhyāya 50 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0500010: सुशर्मोवाच| SP0500011: अतः परं प्रवक्ष्यामि संसारपरिवर्तनम्| SP0500012: यथा वै नरकात्तीर्णाः संसरन्ति समासतः|| १|| SP0500021: प्रथमे नरके प्रोक्ता ये मया पापकर्मिणः| SP0500022: शेषेण कर्मणा ते तु जायन्ते कृमियोनिषु|| २|| SP0500031: कृमियोनौ परावृत्ताः सहस्राणां शतं यदा| SP0500032: ततः पुनर्मर्कटास्ते जायन्ते ऽथ तरक्षवः|| ३|| SP0500041: तत्र तावत्परावृत्ता जायन्ते गोषु ते यदा| SP0500042: तदा तत्र शतेनैव जन्मनां शेषतस्ततः| SP0500043: मानुषेषूपजायन्ते कुत्सितास्वेव योनिषु|| ४|| SP0500051: तत्र ते कुर्वते भूयो यदि किंचिन्न किल्बिषम्| SP0500052: ततो विशुद्धां जातिं ते पुनरेव लभन्त्युत| SP0500053: न च भूयो ऽपि ते घोरं संसारं प्राप्नुवन्ति वै|| ५|| SP0500061: द्वितीये ये मया प्रोक्तास्ते मुक्ताः शेषकर्मणा| SP0500062: कृमिकीटेषु जायन्ते सहस्राणां शतानि षट्|| ६|| SP0500071: तथा शतसहस्रं च शतानां ते पुनर्गताः| SP0500072: मत्सयोनौ प्रसूयन्ते तावदेव न संशयः|| ७|| SP0500081: ततो व्याघ्राश्च ऋक्षाश्च ततो गोत्वमवाप्यते| SP0500082: मानुषेषूपपद्यन्ते कुत्सिताः स्वेन कर्मणा|| ८|| SP0500091: तृतीये त्वथ ये प्रोक्ता मया दुष्कृतकारिणः| SP0500092: ते मुक्ताः कर्मणस्तस्माच्छेषेण समवेष्टिताः| SP0500093: कृमिकीटेषु जायन्ते सहस्राणां शतानि षट्|| ९|| SP0500101: तथैव दश चान्यानि पक्षिणस्तावदेव च| SP0500102: ततः सिंहाश्च सर्पाश्च गावः पश्चाच्च मानुषाः|| १०|| SP0500111: चतुर्थे त्वथ ये प्रोक्ता मया दुष्कृतकारिणः| SP0500112: ते सर्वे शेषवन्तस्तु जायन्ते कृमियोनिषु|| ११|| SP0500121: सहस्राणां शतान्यष्टौ तथा चान्यानि षोडश| SP0500122: योनीनां हि ततो भूयो जायन्ते ते ततो मृगाः|| १२|| SP0500131: मृगभावाद्विनिर्मुक्ता जायन्ते च पुनः खराः| SP0500132: ततो ऽजा गवयाश्चापि गावो मानुष्यतान्ततः|| १३|| SP0500141: पञ्चमे ये मया प्रोक्तास्ते ऽपि शेषेण कर्मणा| SP0500142: कृमिकीटेषु जायन्ते जन्मनां कोटिमेव हि|| १४|| SP0500151: हस्तियोनौ च तावद्धि उष्ट्रेष्वश्वेषु चैव हि| SP0500152: ततो गोत्वं समासाद्य मानुष्यं प्राप्नुवन्ति ते|| १५|| SP0500161: षष्ठाच्चैव विनिर्मुक्तास्ततः शेषेण कर्मणा| SP0500162: जायन्ते कृमिकीटेषु जन्मनां द्विगुणेन हि|| १६|| SP0500171: कोटिमेकां ततो यूका ततो मत्सो ऽथ सूकरः| SP0500172: महिषत्वं ततः प्राप्य गोत्वाज्जायेत मानुषः| SP0500173: मानुषत्वे कुत्सितश्च व्याधितश्चैव जायते|| १७|| SP0500181: सप्तमाच्च विनिर्मुक्तः कृमिकीटेषु जायते| SP0500182: कोटित्रयं तावदेव वृक्षत्वमधिगम्य च|| १८|| SP0500191: ततो लता ततो गुल्मस्ततो हस्ती च जायते| SP0500192: गोत्वं च समनुप्राप्य जायते मानुषस्ततः|| १९|| SP0500201: अष्टमाच्च विनिर्मुक्तो बद्धः शेषेण कर्मणा| SP0500202: जायते कृमिकीटेषु द्वे कोटी द्विगुणे च सः|| २०|| SP0500211: ततश्चौषधिभावेन वीरुत्सु च कुशेषु च| SP0500212: ततो गोत्वाद्विनिर्मुक्तो जायते कुत्सितो नरः|| २१|| SP0500221: नवमादपि चोत्तीर्णो बद्धः शेषेण कर्मणा| SP0500222: जायते कृमिकीटेषु पञ्चकोटीस्ततः खगः|| २२|| SP0500231: ततो मत्सश्च तावद्वै तावदेव सरीसृपः| SP0500232: श्वा ततस्तावदेवाथ ततो भवति किंनरः|| २३|| SP0500241: किंनरत्वाद्विनिर्मुक्तस्ततो गोषूपजायते| SP0500242: ततो गोयोनिनिर्मुक्तो मानुषेषूपजायते|| २४|| SP0500251: दशमादपि चोत्तीर्णः षट्कोटीर्जन्मनां कृमिः| SP0500252: शेषेण कर्मणा जातस्ततो भवति वानरः|| २५|| SP0500261: वानरस्तावदेवेह तावदेव च कुक्कुटः| SP0500262: तावदेव च काकस्तु जीवंजीवक एव च|| २६|| SP0500271: वृक्षदारकमार्जारपिपिलीका च जायते| SP0500272: ततो गोषु प्रजातो ऽसौ मानुषेषूपजायते|| २७|| SP0500281: महारौरवनिर्मुक्तः सप्तकोटीः सुदुःखितः| SP0500282: जन्मनां कृमिकीटेषु ततो मत्सत्वमश्नुते|| २८|| SP0500291: ततः श्वा गर्दभश्चैव भैनाशी शुक एव च| SP0500292: ततो भवति गौश्चापि ततः षण्ढः प्रजायते|| २९|| SP0500301: तमोनरकनिर्मुक्तस्त्वष्टकोटीः सुदुःखितः| SP0500302: जन्मनां प्राप्नुते जन्तुर्विष्ठायां कृमियोनिषु|| ३०|| SP0500311: ततः श्वा जायते भूयश्चक्राह्वश्च पुनः पुनः| SP0500312: ततो मण्डूकतां प्राप्य जायते मृगपक्षिषु|| ३१|| SP0500321: जायते किंनरश्चापि द्वीपी शरभ एव च| SP0500322: ततो गोत्वं समासाद्य मानुषत्वमवाप्नुते|| ३२|| SP0500331: तमोनरकनिर्मुक्तः शेषेणैव हि कर्मणा| SP0500332: जायते कृमिकीटेषु नवकोटीः स जन्मनाम्|| ३३|| SP0500341: ततो भवति काकश्च भासश्चैव स जायते| SP0500342: वान्ताशी च ततः पक्षी उलूकश्च ततः पुनः|| ३४|| SP0500351: पुनर्वृक्षश्च गुल्मश्च ततो भवति वै मृगः| SP0500352: ततो गौर्मनुजश्चापि तत्र गर्भे स वै मृतः|| ३५|| SP0500361: पुनः पुनर्जायमानः सहस्राणां शतं स तु| SP0500362: व्याधितः कुत्सितश्चैव जायते स नरः पुनः|| ३६|| SP0500371: यस्तु सर्वानिमान्प्राप्य नरकानिह जायते| SP0500372: स योनिषु समस्तासु सर्वसंसारमश्नुते|| ३७|| SP0500381: यदि मानुष्यतां याति कदाचित्कालपर्ययात्| SP0500382: तत्रापि कुत्सितां योनिं भूयो भूयः प्रपद्यते|| ३८|| SP0500391: अनिष्टः सर्वभूतानां दुःखितो व्याधितस्तथा| SP0500392: विकृतं रूपमाप्नोति कर्मणा स्वेन दूषितः|| ३९|| SP0500400: सुशर्मोवाच| SP0500401: एतत्ते कथितं सर्वं समासात्पुत्र सर्वशः| SP0500402: नरकाणां सतत्त्वं च क्रमभेदौ यथागति|| ४०|| SP0500410: सनत्कुमार उवाच| SP0500411: य इमं शृणुयाद्युक्तः सदा पर्वसु पर्वसु| SP0500412: श्रावयेद्वा द्विजान्सम्यक्सर्वपापैः प्रमुच्यते|| ४१|| SP0500421: धर्म्यं यशस्यमायुष्यं स्वर्ग्यं सर्वार्थसाधकम्| SP0500422: श्राव्यं च पठितव्यं च सततं भूतिमिच्छता|| ४२|| SP0500431: इदं तु सर्वार्थसुखावहं ध्रुवं महानुभावं सुगतिप्रदं शुभम्| SP0500432: सदैव विप्रेण समाहितात्मना अधीत्य धार्यं श्रुतिसंमितं ध्रुवम्|| ४३|| SP0509999: स्कन्दपुराणे पञ्चाशो ऽध्यायः||