Skandapurāṇa Adhyāya 49 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0490010: सुशर्मोवाच| SP0490011: तमस्तमतरं घोरं नरकं शृणु मे पुनः| SP0490012: प्रकाशो यत्र नैवास्ति नैव दृष्टिः प्रवर्तते|| १|| SP0490021: पतन्नेव नरस्तत्र विसंज्ञः क्रियते ऽशुभः| SP0490022: राक्षसैर्विकृताकारैस्तमस्तेन स चोच्यते|| २|| SP0490031: तत्रासौ पतितो मूढो वह्निना दह्यते भृशम्| SP0490032: मृतो वेगादुत्थितश्च दृष्टिहीनो विचेतनः| SP0490033: छिद्यते भिद्यते चैव राक्षसैः क्रूरकर्मभिः|| ३|| SP0490041: तस्मादपि तथैवार्तः सो ऽन्यं देशं प्रपद्यते| SP0490042: तत्रापि निगृहीतस्तैः पशुमारेण वध्यते|| ४|| SP0490051: ततो भूयश्च कूपेषु क्षिप्तो दुर्गेष्वचेतनः| SP0490052: निमग्नश्चाग्निकारीष्यां निष्कूजन्सो ऽभिजायते|| ५|| SP0490061: एवं स यातना बह्वीस्त्वनुभूय सुदुःखितः| SP0490062: नरकान्तमनुप्राप्य उच्छ्रयेष्वभिपात्यते|| ६|| SP0490071: गर्भपातनकारश्च राज्यकामश्च यो भवेत्| SP0490072: इहैवानर्हमानो ऽसौ भृत्यो राजवधे रतः|| ७|| SP0490081: अनाचार्यश्च यः कर्म आचार्याणां प्रपद्यते| SP0490082: शास्त्रविद्यौषधीनां च गदानामगदैः सह| SP0490083: यो विनाशयिता कश्चिद्यः प्रशंसति दानवान्|| ८|| SP0490091: उपदेशं च यो द्वेषादाचार्यो न प्रयच्छति| SP0490092: स याति नरकं घोरं दुस्तरं तं तमोमयम्|| ९|| SP0490101: कृतघ्नं तु समादाय नरकाः सर्व एव ते| SP0490102: यमं प्रणम्य ब्रुवते सह तैर्यमकिंकरैः|| १०|| SP0490111: भगवन्न वयं शक्ताः पापस्यास्य विनाशने| SP0490112: उपायमन्यं पश्यस्व प्रसादं कुरु नः प्रभो|| ११|| SP0490121: स एवमुक्तो भगवान्यमः प्रेताधिपस्तदा| SP0490122: सर्वधर्मार्थकुशलान्पृच्छते ऋषिसत्तमान्|| १२|| SP0490131: भगवन्तः कथं त्वस्य कृतघ्नस्य दुरात्मनः| SP0490132: निष्कृतिः सुमहाघोराद्भवेत्पापस्य कर्मणः|| १३|| SP0490141: ततस्ते ऋषयः सर्वे दृष्ट्वा दीर्घेण चक्षुषा| SP0490142: यमं धर्मभृतां श्रेष्ठमिदं वै ब्रुवते वचः|| १४|| SP0490151: ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा| SP0490152: निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः|| १५|| SP0490161: ततः स भगवान्देवो मार्तण्डतनयो वरः| SP0490162: नरकेभ्यो ददात्याज्ञां सर्वे यूयमिमं नरम्| SP0490163: शोधयिष्यथ गच्छध्वं नैका ह्यस्य गतिः स्मृता|| १६|| SP0490171: ततस्ते तस्य वचनान्नरकाः पापकर्मिणम्| SP0490172: सर्वेष्वेवानुपूर्वेण यातयन्त्यतिदारुणम्|| १७|| SP0490181: भर्तृपिण्डापहर्ता च पितृपिण्डापहारकः| SP0490182: तस्माद्गृहीत्वा विद्यां च दक्षिणां यो न यच्छति|| १८|| SP0490191: पुष्टश्च यः स्वं नान्वेति यश्च तं घातयेन्नरः| SP0490192: कृतस्य दोषं वदति सकामं न करोति च| SP0490193: न स्मरेच्च कृतं यस्तु आश्रमान्यश्च दूषयेत्|| १९|| SP0490201: न पुष्णाति तथा वाहानाश्रितांश्चोपकारिणः| SP0490202: भृत्यांश्च कर्मनिरतांस्तथैव हितकारिणः| SP0490203: भार्याकर्मकरीणां च नर्माणि वदते च यः|| २०|| SP0490211: न दत्तं न हुतं किं चिदमुष्मिन्निति यो वदेत्| SP0490212: सर्वांस्तानृषिभिः सार्धं कृतघ्नानब्रवीन्मनुः|| २१|| SP0490221: कृतघ्नश्च शठश्चैव नास्तिको ऽच्छिन्नसंशयः| SP0490222: एतान्सर्वे ऽभिगच्छन्ति य एते कीर्तिता मया|| २२|| SP0490231: उत्पादकोपनेता च यश्च विद्यां प्रयच्छति| SP0490232: भयत्रातान्नदाता च पञ्चैते पितरः स्मृताः|| २३|| SP0490241: यस्तेषां दोषवक्ता च अभ्यसूयक एव च| SP0490242: तथा द्रोहप्रवृत्तश्च संत्यजेत्तान्नराधमः|| २४|| SP0490251: मित्रध्रुग्यश्च दुष्टात्मा तस्य रन्ध्रावकीर्तकः| SP0490252: कृतोपकारिणे पूर्वं न करोति प्रियं च यः|| २५|| SP0490261: एते सर्वे नरा दुष्टाः सर्व एवाशुभे रताः| SP0490262: नरकान्संप्रपद्यन्ते बद्धाः पापेन कर्मणा|| २६|| SP0490271: एते सर्वे मया प्रोक्ता महानिरयगामिनः| SP0490272: उच्छ्रयानेव गच्छन्ति ये ऽन्ये पापकृतो जनाः|| २७|| SP0490281: य इमं तामसं घोरं शृणुयाद्वा पठेत वा| SP0490282: अधर्माच्च निवर्तेत स गच्छेद्ब्रह्मणः पदम्|| २८|| SP0499999: स्कन्दपुराण एकोनपञ्चाशत्तमो ऽध्यायः||