Skandapurāṇa Adhyāya 38 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0380010: सुशर्मोवाच| SP0380011: अतः परं प्रवक्ष्यामि शाल्मलीनरकं पुनः| SP0380012: यात्यन्ते तत्र पुरुषाः सुभृशं पापकर्मिणः|| १|| SP0380021: शाल्मलीनां सहस्राणि बहूनि प्रवरेश्वर| SP0380022: उच्चाः सर्वाश्च ता घोरा बहुयोजनविस्तृताः| SP0380023: महाशाखा महापत्रा महाकण्टकसंयुताः|| २|| SP0380031: लोहेन महता चैव प्राकारेणाभिसंवृताः| SP0380032: जालेन महता सर्वा उपरिष्टात्समावृताः|| ३|| SP0380041: पुरुषास्तत्र तिष्ठन्ति बहवो रुषिताननाः| SP0380042: वज्रटङ्कोपलधरा असिमुद्गरधारिणः|| ४|| SP0380051: अन्यैश्च विविधाकारैरायुधैर्वृतपाणयः| SP0380052: यातयन्ति भृशं जन्तूनवशांस्ते सुदारुणाः|| ५|| SP0380061: छिद्यमानश्च तत्रापि राक्षसैः क्रूरकर्मभिः| SP0380062: दिशः प्रपद्यते सर्वा वेदनार्तः सुदुःखितः| SP0380063: व्रजते यत्र यत्रासौ तत्र तत्राभिहन्यते|| ६|| SP0380071: गर्तेषु पतितं चैव राक्षसाः प्राप्य सर्वशः| SP0380072: शस्त्रैर्नानाविधाकारैर्निकृन्तन्त्यतिदारुणाः|| ७|| SP0380081: श्रावयन्तः पुरानेन कृतं पापं महाबलाः| SP0380082: भर्त्सयन्तश्च दुर्वृत्तं पतितं क्वचिदेव हि|| ८|| SP0380091: तत उत्थाय भिन्नाङ्गः सो ऽनुबद्धश्च राक्षसैः| SP0380092: सूचीकण्टकसंयुक्तं देशमन्यं प्रपद्यते|| ९|| SP0380101: तत्र सूचीभिरुग्राभिः कण्टकैश्चायसैः पुनः| SP0380102: भिद्यमानो नदन्दुःखान्निपतत्यतिदुःखितः|| १०|| SP0380111: तत्राप्येनं समासाद्य विविधायुधपाणयः| SP0380112: राक्षसाभिद्रवन्त्येव वैरिणो वैरिणं यथा|| ११|| SP0380121: तस्मादुत्थाय वेगेन वृक्षं यद्यधिरोहति| SP0380122: तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते छिद्यते ऽपि च| SP0380123: यन्त्रैश्च विविधाकारैरयस्तुण्डैश्च पक्षिभिः|| १२|| SP0380131: हृतकर्णाक्षिनासोष्ठः पतितो धरणीतले| SP0380132: तत्र सूचीभिरुग्राभिः सर्वाङ्गेषु विभिद्यते|| १३|| SP0380141: एवं बहुविधाकारा यातनास्तत्र दुःखिताः| SP0380142: प्राप्नुवन्ति दुराचारा ये तान्निगदतः शृणु|| १४|| SP0380151: अग्निदो गरदाता च अयोनौ यश्च गच्छति| SP0380152: पुंसि योत्सृजते शुक्रं विषदो मांसविक्रयी|| १५|| SP0380161: समुद्रयायी दुष्टात्मा यश्चैको मृष्टमश्नुते| SP0380162: अतिथिं नार्चयेद्यस्तु यस्तु मिथ्याव्रती भवेत्|| १६|| SP0380171: ब्रह्मोज्झश्च विवासाश्च यो ऽपः प्रविशते द्विजः| SP0380172: घण्टिको ग्रामयाजी च शूद्राध्यापक एव च|| १७|| SP0380181: तथा वार्धुषिको लुब्धो विक्रेता ब्रह्मणश्च यः| SP0380182: एते गच्छन्ति दुर्वृत्ताः कूटशाल्मलिसंज्ञकम्|| १८|| SP0380191: कोटीद्वयेन तूत्तीर्णा वर्षाणां वै पुनश्च ते| SP0380192: उच्छ्रये पातिताः स्तोकं कालं विश्राम्य वै पुनः|| १९|| SP0380201: पात्यन्ते नरके तस्मिन्यावत्क्षीणं तदेनसम्| SP0380202: एषैव विधिरन्येषां नरकाणां मुने स्मृता|| २०|| SP0380211: य इमं भृशदुःखितोपलम्भं सुकृतीनामतिदुर्गमाचलम्| SP0380212: शृणुयात्प्रयतः कुतूहलात्मा न स गच्छेन्निरयं हि शाल्मलम्|| २१|| SP0389999: स्कन्दपुराणे ऽष्टत्रिंशत्तमो ऽध्यायः||