Skandapurāṇa Adhyāya 37 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0370010: सनत्कुमार उवाच| SP0370011: ततस्ते पितरस्तस्य प्रतिष्ठां स्वसुतं प्रति| SP0370012: सुशर्माणमिति ख्यातं कथयामासुरव्ययाः|| १|| SP0370020: पितर ऊचुः| SP0370021: अयं ते जनकः पुत्र सुशर्मा लोकविश्रुतः| SP0370022: कथयिष्यति तत्त्वेन यत्त्वया समुदाहृतम्|| २|| SP0370030: सनत्कुमार उवाच| SP0370031: ततः सुशर्मा विप्रर्षे तमामन्त्र्य महामनाः| SP0370032: उवाचेदं महासत्त्वं सुकेशं गणसत्तमम्|| ३|| SP0370040: सुशर्मोवाच| SP0370041: गणेश्वरेश शृणुया नरका ये प्रकीर्तिताः| SP0370042: दुरासदा महादुर्गाः सर्वप्राणिभयंकराः|| ४|| SP0370051: प्रथमो नरकस्तत्र विश्रुतो यमलाचलः| SP0370052: द्वितीयः शाल्मलो नाम तृतीयः कालसूत्रकः|| ५|| SP0370061: कुम्भीपाकश्चतुर्थश्च असिपत्रवनो ऽपरः| SP0370062: तथा वैतरणी षष्ठः सप्तमश्चाप्ययोघनः|| ६|| SP0370071: अष्टमः पद्म इत्येव महापद्मस्तथापरः| SP0370072: रौरवो दशमश्चैव महारौरव एव च|| ७|| SP0370081: द्वादशश्च तमो नाम तमस्तमतरस्तथा| SP0370082: एते महान्तो नरका उच्छ्रयाश्च तथापरे|| ८|| SP0370091: एकैकस्योच्छ्रया ह्यष्टौ नरकास्ते ऽपि कीर्तिताः| SP0370092: उच्छ्रयेषु सविश्रामा यातना भवतीश्वर| SP0370093: इतरेषु त्वविश्रामा विशेषो ह्येष कीर्तितः|| ९|| SP0370101: तेषां सततदुःखं तु नॄणां पापेन कर्मणा| SP0370102: भेदः क्षयाच्च पापस्य क्रमस्तेषां प्रवक्ष्यते|| १०|| SP0370111: प्रमाणं तु गणेशेश न शक्यं वक्तुमेकशः| SP0370112: विभुत्वात्कर्मणस्तस्य क्षयादन्तं प्रपश्यति|| ११|| SP0370121: नरको ऽतिततः सर्वो नान्तं तस्य प्रपश्यति| SP0370122: क्षीणपापाः प्रपश्यन्ति यथा तच्छृणु मे ऽव्यय|| १२|| SP0370131: पतितो नरके घोरे दुष्कृती स्वेन कर्मणा| SP0370132: यात्यमानो ऽतिकरुणं दिशमेकां प्रपद्यते|| १३|| SP0370141: स गत्वा शीघ्रमध्वानं बहुयोजनविस्तृतम्| SP0370142: बहूनब्दाननासाद्य तस्यान्तं विनिवर्तते|| १४|| SP0370151: विनिवृत्य ततो भूयो यात्यमानो विचेतनः| SP0370152: अन्यां दिशं पुनर्गत्वा तथैव विनिवर्तते|| १५|| SP0370161: एवं सर्वा दिशो गत्वा ह्यन्तमप्राप्य दुःखिताः| SP0370162: यात्यन्ते करुणं तत्र पापस्यान्ते ततः पुनः|| १६|| SP0370171: प्रपश्यन्ते परिमितं परिच्छिन्नं च सर्वशः| SP0370172: द्वारेण महता युक्तं ततस्तस्माद्विमुच्यते|| १७|| SP0370181: एवं हि नरकाः सर्वे ह्यनन्ताश्चाक्षयाव्ययाः| SP0370182: न तेषां परिसंख्यानं योजनैः संविधीयते|| १८|| SP0370191: येन कालेन तु पुनर्जन्तुः पतति दुःखितः| SP0370192: यथा चैतच्छृणु विभो कथ्यमानं मयानघ|| १९|| SP0370201: कृत्वा पापानि कर्माणि क्षयान्ते दुष्टचेतनः| SP0370202: व्याध्याधियुक्तः क्लेशेन त्यजति स्वां तनुं ततः|| २०|| SP0370211: यमदूतैर्महापाशैर्बद्ध्वा दुःखसमीरितः| SP0370212: विषमेण पथा देव नीयते विकृताकृतिः|| २१|| SP0370221: अयोमयैः कण्टकैश्च विध्यमानस्ततस्ततः| SP0370222: केशामेध्यास्थिपङ्कैश्च दह्यमानः समन्ततः|| २२|| SP0370231: विषमेषु च गर्तेषु प्रपतन्भिद्यते पुनः| SP0370232: क्वचिच्चोपलवर्षेण महता संनिकीर्यते|| २३|| SP0370241: तत्र भिन्नशिरोजानुपादबाहूरुबन्धनः| SP0370242: कृष्यते यमदूतैश्च पुनः कण्टकिभिर्द्रुमैः| SP0370243: पाट्यते भिद्यते चैव वल्लीभिश्चावबध्यते|| २४|| SP0370251: एवं बहुविधाकारैर्दुःखदैः पथिभिः प्रभो| SP0370252: नीयमानो ऽवशः क्लेशात्प्राप्नोति यमसादनम्|| २५|| SP0370261: स ततो यममप्राप्य दूरादेव यमाज्ञया| SP0370262: चित्रगुप्तमुपागम्य श्राव्यते कर्म यत्कृतम्|| २६|| SP0370271: सोमो ऽग्निर्वरुणो वायुः सूर्यश्चेति तदा नरम्| SP0370272: साक्षिणः सर्वजन्तूनां ब्रुवते कर्म यत्कृतम्|| २७|| SP0370281: उक्तो विभावितश्चैव चित्रगुप्तेन चोदितः| SP0370282: नरके निपतत्यार्त्त ऊर्ध्वपादो ह्यधःशिराः|| २८|| SP0370291: तोमरैश्चातितीक्ष्णाग्रैः शरैश्चाथ परश्वधैः| SP0370292: भिन्दिपालैर्मुद्गरैश्च असिभिर्दीर्घवेधनैः|| २९|| SP0370301: परिघैः करपत्रैश्च वज्रैष्टङ्कैर्हुलोपलैः| SP0370302: कीलैश्च मुसलैश्चैव क्षारपिष्टेन चैव हि|| ३०|| SP0370311: प्रदीप्तैश्चायुधैर्घोरैरग्निवर्षेण चाप्युत| SP0370312: हन्यमानो दिवारात्रं विनदन्करुणं बहु| SP0370313: वर्षाणां तु सहस्रेण नरकं प्राप्नुते ऽशुभम्|| ३१|| SP0370321: स तत्र पतितो भूयो यात्यमानः सुदुःखितः| SP0370322: वर्षकोटीमविश्राम्य निरयान्तं प्रपद्यते|| ३२|| SP0370331: महानरकमुक्तश्च उच्छ्रयान्तरमाश्रितः| SP0370332: शीतेन वायुना स्पृष्टः सुखं तत्र स विन्दति|| ३३|| SP0370341: स तं विश्राममासाद्य विस्मृतो यातनां तदा| SP0370342: मुहूर्तमाहृते स्वप्ने राक्षसेनापकृष्यते|| ३४|| SP0370351: स तेन कृष्यमाणश्च भूयो दुःखेन चार्दितः| SP0370352: करुणं बहुधातीव प्रविलप्यावतिष्ठते|| ३५|| SP0370361: ततो भूयः समाकृष्य यातनायां स राक्षसः| SP0370362: यातयत्येव तं जन्तुं सविश्रामं सचेतनम्|| ३६|| SP0370371: तत्र वर्षसहस्रं वै यातितः पुनरेव सः| SP0370372: अन्यस्मिन्नुच्छ्रये घोरे यात्यते तावदेव हि|| ३७|| SP0370381: एवं स उच्छ्रयान्प्राप्य अष्टौ पापेन कर्मणा| SP0370382: संसारं कृमिकीटादि जन्तुः संप्रतिपद्यते|| ३८|| SP0370391: ये तु गच्छन्ति तं घोरं नरकं पुरुषाधमाः| SP0370392: तानहं संप्रवक्ष्यामि तव पुत्र समासतः|| ३९|| SP0370401: प्रथमो यो मया प्रोक्तो नरको यमलाचलः| SP0370402: यात्यन्ते तत्र पुरुषा महानिरयगामिनः|| ४०|| SP0370411: पर्वतौ द्वौ महासत्त्व सिंहव्याघ्रसमाकुलौ| SP0370412: शरभेभसमाकीर्णौ बहुसर्पसमाकुलौ|| ४१|| SP0370421: पक्षिभिर्विविधाकारैः पुरुषैश्चोद्यतायुधैः| SP0370422: वृक्षैरपर्णैः संयुक्तौ सूचिभिर्वज्रकण्टकैः|| ४२|| SP0370431: तयोरन्तरमेकं वै समं सूचिभिरावृतम्| SP0370432: ऊर्ध्वाभिर्वज्रतुण्डाभिरभेद्याभिस्तथैव च| SP0370433: अन्यतः पुरुषैर्घोरैः शस्त्रपाणिभिरावृतम्|| ४३|| SP0370441: प्राकारेण च लोहेन समन्तात्परिवारितौ| SP0370442: आकाशे चापि लोहेन तौ जालेन समावृतौ|| ४४|| SP0370451: यात्यन्ते तत्र पुरुषा ये वै स्त्रियमनिच्छतीम्| SP0370452: आक्रमन्ति पराक्यां वै कन्यादूषक एव च|| ४५|| SP0370461: न्यासापहारकश्चैव तथा मांसापहारकः| SP0370462: रसापहारकश्चैव यश्चापि परदूषकः|| ४६|| SP0370471: इन्द्रियग्रामघाती च मिथ्यालिङ्गी तथैव च| SP0370472: मृगश्वापदहन्ता च पृष्ठमांसाशिनश्च ये|| ४७|| SP0370481: वृथामांसाशिनो ये च विषं ये च प्रकुर्वते| SP0370482: एते नराधमाः पुत्र गच्छन्ति यमलाचलम्|| ४८|| SP0370491: यमलेषु च जातेषु यो न कुर्यान्नराधमः| SP0370492: प्रायश्चित्तमशुद्धात्मा स च तं प्रतिपद्यते|| ४९|| SP0370501: स प्रपन्नो यथोक्तैस्तैः पुरुषैः समभिद्रुतः| SP0370502: आयुधैश्छिद्यमानश्च पर्वतं तं प्रपद्यते|| ५०|| SP0370511: तत्र व्याघ्रैश्च सिंहैश्च शरभैः स तरक्षुभिः| SP0370512: सर्पैर्विडालैः पतगैरयस्तुण्डैश्च भक्ष्यते|| ५१|| SP0370521: तैर्भक्ष्यमाणो यदि च वृक्षं समधिरोहते| SP0370522: तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते पक्षिभिश्च ह|| ५२|| SP0370531: अथ चेत्कन्दरांस्तस्य गुहां वा यातुमिच्छति| SP0370532: तत्रापि ह्यग्निना दग्धो दुःखार्तो विनिवर्तते|| ५३|| SP0370541: अथ चेदन्तरं घोरं तयोः संप्रतिपद्यते| SP0370542: तत्र सूचीभिरुग्राभिः पादयोर्भिद्यते नरः|| ५४|| SP0370551: भिन्नं च तं समालक्ष्य अशक्तमपसर्पणे| SP0370552: समागम्याचलौ क्षिप्रं पीडयेतामतीव हि|| ५५|| SP0370561: पीड्यमानो ऽचलाभ्यां च यन्त्रेणेक्षुवदातुरः| SP0370562: करुणं क्रन्दमानस्तु यातनां तां समश्नुते|| ५६|| SP0370571: भक्षितस्याथ भिन्नस्य विलुप्तस्य च पक्षिभिः| SP0370572: दग्धस्य च नवं भूयः शरीरमभिजायते|| ५७|| SP0370581: एवं स यात्यमानो वै बहूनब्दान्सुदुःखितः| SP0370582: द्वारं लब्ध्वा विनिःसृत्य उच्छ्रयेषु निपात्यते|| ५८|| SP0370591: यमलाचलमेतमुग्रवेगं बहुपापसमेतकर्मयोगम्| SP0370592: शृणुयाद्य अभीक्ष्णशो ऽतिवेगं स न याति तमुग्रपापयोगम्|| ५९|| SP0379999: स्कन्दपुराणे सप्तत्रिंशो ऽध्यायः||