Skandapurāṇa Adhyāya 31 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0310010: सनत्कुमार उवाच| SP0310011: एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम्| SP0310012: प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि|| १|| SP0310021: भक्तो मम वरारोहे तपसा हतकिल्बिषः| SP0310022: अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि|| २|| SP0310031: एवमुक्त्वा तदा देवः सह देव्या जगत्पतिः| SP0310032: जगाम यक्षो यत्रास्ते कृशो धमनिसंततः|| ३|| SP0310041: तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः| SP0310042: दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम्|| ४|| SP0310050: सनत्कुमार उवाच| SP0310051: अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने| SP0310052: अपश्यत्सगणं देवं वृषं चैव-म्-उपाश्रितम्|| ५|| SP0310060: देव उवाच| SP0310061: बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा| SP0310062: सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः|| ६|| SP0310070: सनत्कुमार उवाच| SP0310071: ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च| SP0310072: पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम्|| ७|| SP0310081: उवाच स तदा यक्षो वरदो ऽस्मीति चोदितः| SP0310082: भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे|| ८|| SP0310091: अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम्| SP0310092: अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा| SP0310093: एतदिच्छामि देवेश दत्तं वरमनुत्तमम्|| ९|| SP0310100: देव उवाच| SP0310101: जरामरणसंत्यक्तः सर्वशोकविवर्जितः| SP0310102: भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः|| १०|| SP0310111: अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः| SP0310112: अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि|| ११|| SP0310121: महाबलो महासत्त्वो ब्रह्मण्यो ऽथ मम प्रियः| SP0310122: त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च|| १२|| SP0310131: उद्भ्रमः संभ्रमश्चैव गणौ ते परिचारकौ| SP0310132: तवाज्ञया करिष्येते लोकस्योद्भ्रमसंभ्रमौ|| १३|| SP0310140: सनत्कुमार उवाच| SP0310141: एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम्| SP0310142: जगाम धाम देवेशः सह तेन सुरेश्वरः|| १४|| SP0310151: अथ दृष्ट्वा ततो देवीं देवदेवो वृषध्वजः| SP0310152: तप्यतो मन्दरस्याशु वरदानार्थमब्रवीत्|| १५|| SP0310160: देव उवाच| SP0310161: देवि फुल्लारविन्दाक्षि गमिष्यामि सुमध्यमे| SP0310162: मन्दरं पर्वतश्रेष्ठमनुग्रहवरेप्सया|| १६|| SP0310171: सभार्यः ससुतश्चैव स हि मां ससुहृज्जनः| SP0310172: प्रसन्नस्तपसा श्रेष्ठो मन्दरः पर्वतोत्तमः|| १७|| SP0310181: अद्य वर्षसहस्राणि पञ्च दिव्यानि पार्वति| SP0310182: तप्यते तपसा श्रेष्ठो मयि सर्वात्मभावितः|| १८|| SP0310190: देव्युवाच| SP0310191: नय मामपि देवेश मन्दरं चारुकन्दरम्| SP0310192: न रंस्ये ऽहं विना देव त्वया सर्वजगत्पते|| १९|| SP0310201: ततो देवः प्रहस्यैनामुवाच परमेश्वरः| SP0310202: अविमुक्तं न मोक्तव्यं कथं त्वं यातुमिच्छसि|| २०|| SP0310210: देव्युवाच| SP0310211: इह चैव निवत्स्यामि गमिष्यामि च मन्दरम्| SP0310212: अविमुक्तमिदं स्थानं ततो देव भविष्यति|| २१|| SP0310220: देव उवाच| SP0310221: एवमेतद्वरारोहे यथा वदसि पार्वति| SP0310222: ऐश्वर्यात्सर्वगा हि त्वं यथाहं देवि सर्वगः|| २२|| SP0310230: सनत्कुमार उवाच| SP0310231: ततः स भगवान्देवो वृषमारुह्य सर्वगम्| SP0310232: सोमः सनन्दिः सगणो मन्दरं प्रययौ हरः|| २३|| SP0310241: स गत्वा भुवनेशानस्तप्यमानं परं तपः| SP0310242: अपश्यन्मन्दरं तत्र दृष्ट्वा चैनमुवाच ह|| २४|| SP0310251: वरदो ऽस्मि गिरीशाद्य तपसानेन ते भृशम्| SP0310252: वरं वृणु यथेष्टं त्वं सर्वं तत्प्रददानि ते|| २५|| SP0310260: सनत्कुमार उवाच| SP0310261: स एवमुक्तः शर्वेण दृष्ट्वा त्रिभुवनेश्वरम्| SP0310262: सोमं सनन्दिनं चैव प्रणम्य वृषवाहनम्|| २६|| SP0310271: पुनः पुनर्हरं दृष्ट्वा देवीं चैव पुनः पुनः| SP0310272: पुनः पुनर्गणांश्चैव नन्दिनं च ननाम सः|| २७|| SP0310281: तं तथा व्याकुलं दृष्ट्वा हर्षजास्राविलेक्षणम्| SP0310282: वरेण च्छन्दयामास भूय एव हरो गिरिम्|| २८|| SP0310290: मन्दर उवाच| SP0310291: भगवन्यदि तुष्टो ऽसि देवदेव जगत्पते| SP0310292: मयि ते वासमिच्छामि सोमस्य सगणस्य च|| २९|| SP0310301: इच्छामि देवदेवेश पादस्पर्शेन ते सदा| SP0310302: पवित्रीकृतमात्मानं सोमेन सगणेन च|| ३०|| SP0310311: नान्यं वरमिहेच्छामि त्वत्तो देव जगद्गुरो| SP0310312: एष एव वरो मह्यं दीयतां भुवनेश्वर| SP0310313: एवमस्त्विति तं प्राह मन्दरं वरदस्तदा|| ३१|| SP0310320: भगवानुवाच| SP0310321: सनन्दी सह देव्या च निवत्स्यामि सदा त्वयि| SP0310322: त्वं चापि भूभृतां श्रेष्ठो जरामरणवर्जितः| SP0310323: अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि|| ३२|| SP0310331: रम्यश्च सर्वभूतानां हेमरत्नविभूषितः| SP0310332: अप्सरोगणसंकीर्णः सुरसिद्धनिषेवितः|| ३३|| SP0310340: सनत्कुमार उवाच| SP0310341: सद्म-म्-एवासृजत्तत्र जम्बूनदमयं महत्| SP0310342: मनसातिगुणं व्यास न तेनास्ति समं क्वचित्|| ३४|| SP0310351: न तादृग्ब्रह्मणो ऽप्यस्ति किमुतान्यस्य कस्यचित्| SP0310352: तेजसा वर्ष्मणा कान्त्या वृष नाम्नेति विश्रुतम्|| ३५|| SP0310360: व्यास उवाच| SP0310361: भगवन्ब्रह्मणः सूनो सर्वयोगेश्वरेश्वर| SP0310362: न मे तृप्तिस्त्वयाख्याते देवदेवस्य चेष्टिते|| ३६|| SP0310371: अभवज्जलदः पूर्वं वाहनं रुद्रवल्लभम्| SP0310372: तत्कथं संपरित्यज्य वृषभे मतिमादधे|| ३७|| SP0310380: सनत्कुमार उवाच| SP0310381: पुरा वेदः सुतो जज्ञे ब्रह्मणः प्रथमो ऽद्भुतः| SP0310382: द्वितीयश्चैव यज्ञो ऽभूत्तं च लोके ऽभ्ययुञ्जत|| ३८|| SP0310391: स लोकाप्यायनकरः प्रयुक्तो ब्रह्मणा स्वयम्| SP0310392: प्रजा विवर्धयिषता नावर्धयदशेषतः|| ३९|| SP0310401: आत्मानमथ स ज्ञात्वा नातितेजसमच्युतः| SP0310402: तताप सुमहद्व्यास तपो यज्ञः सुदुश्चरम्|| ४०|| SP0310411: अथ तुष्टस्तदा देवः शर्वो यज्ञस्य सुव्रत| SP0310412: उवाच वरदो ऽस्मीति स वव्रे वरदं वरम्|| ४१|| SP0310420: यज्ञ उवाच| SP0310421: भगवंल् लोकसिद्ध्यर्थं प्रयुक्तो ऽहं स्वयम्भुवा| SP0310422: न च मे ऽस्ति तथावीर्यं तन्मे यच्छ नमस्तव|| ४२|| SP0310430: देव उवाच| SP0310431: जीमूतो भव लोकानां तव सिद्धिर्भविष्यति| SP0310432: ततो ऽमृताभिरद्भिस्त्वं लोकान्संवर्धयिष्यसि|| ४३|| SP0310440: यज्ञ उवाच| SP0310441: जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम्| SP0310442: तस्माद्भवन्तं पृष्ठेन वहेयं विद्युतालयः|| ४४|| SP0310451: यथाहं यज्ञभावे ऽपि वहामि त्वां महाप्रभम्| SP0310452: तथैव जलदत्वे ऽपि वहेयमहमव्ययम्|| ४५|| SP0310460: सनत्कुमार उवाच| SP0310461: एवमस्त्विति संप्रोच्य वाहनत्वे व्यकल्पयत्| SP0310462: जीमूतं व्यास भगवान्यज्ञमूर्तिमतिप्रभम्|| ४६|| SP0310471: यदा तु यजतो व्यास दक्षस्य सुमहात्मनः| SP0310472: शिरश्छिन्नं शरेणाशु यज्ञस्यामिततेजसः| SP0310473: तदाशिरस्कं तं यज्ञं वाहनत्वादपानुदत्|| ४७|| SP0310480: व्यास उवाच| SP0310481: कथं यज्ञं स दक्षस्य भगवानाहनच्छुभम्| SP0310482: कारणं चात्र किं विप्र येन तं हतवान्प्रभुः|| ४८|| SP0310490: सनत्कुमार उवाच| SP0310491: शापः पूर्वं समाख्यातः कारणं मुनिसत्तम| SP0310492: इदं च शृणु मे भूयो विस्तरेण पुरातनम्|| ४९|| SP0310501: पुरा हि ब्रह्मणो वक्त्रात्क्षुवतो ऽभिविनिःसृतः| SP0310502: बद्धगोधाङ्गुलित्रश्च शरी तूणी शरासनी|| ५०|| SP0310511: खड्गी किरीटमाली च कुण्डली कवची तथा| SP0310512: महोरस्को महोत्साहः पुरुषः काञ्चनप्रभः|| ५१|| SP0310521: क्षुप इत्येव नाम्ना तं ब्रह्मा स्वयमभाषत| SP0310522: तमिन्द्रो वरयामास राजानं भुवि लोकपम्|| ५२|| SP0310531: सो ऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि| SP0310532: ततः स्यां भुवि राजाहं नान्यथा रोचते मम|| ५३|| SP0310540: इन्द्र उवाच| SP0310541: चिन्तितं करमेतत्ते वज्रमेष्यति नान्यथा| SP0310542: एवं भवतु भद्रं ते भव राजा प्रजाहितः|| ५४|| SP0310550: सनत्कुमार उवाच| SP0310551: स एवमुक्तस्तेजस्वी राजा भुवि बभूव ह| SP0310552: च्यावनिश्च दधीचो ऽस्य सखा समभवत्तदा|| ५५|| SP0310561: स तेन सह संगम्य सुखासीनो वरासने| SP0310562: चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनः पुनः|| ५६|| SP0310571: अथाभवत्तयोर्व्यास रागो जातिकृतः प्रभुः| SP0310572: क्षत्रं श्रेष्ठं न वा श्रेष्ठं ब्रह्म श्रेष्ठं न वेति च|| ५७|| SP0310581: क्षुपो ऽब्रवीत्क्षत्रमिति दधीचो ब्रह्म वेति च| SP0310582: अब्रूतां कारणे चोभे न व्यवर्तत कश्चन|| ५८|| SP0310591: अथ तीक्ष्णतया चैव तपोधिकतया तथा| SP0310592: ब्राह्मणत्वस्य चाग्र्यत्वात्तथा दैवकृतेन च|| ५९|| SP0310601: क्रुद्धो दधीचस्तं व्यास वामहस्तेन मूर्धनि| SP0310602: आजघान महातेजा वज्रेणाताडयत्स च|| ६०|| SP0310611: वज्रेण स द्विधा छिन्नः शक्रमाह्वयदव्ययः| SP0310612: सो ऽवदत्त्वं महायोगः शक्तः संधातुमात्मना|| ६१|| SP0310621: स्वदेहं स तथा श्रुत्वा दधीचो योगमायया| SP0310622: संधयामास शर्वं च शरणं समपद्यत|| ६२|| SP0310631: स सुरेश्वरमाराध्य प्राप्यावध्यत्वमुत्तमम्| SP0310632: वज्रास्थित्वमभेद्यत्वमजरत्वं च शंकरात्| SP0310633: सर्वभूतानुकम्पित्वं महायोगित्वमेव च|| ६३|| SP0310641: पुनरागात्क्षुपं द्रष्टुं पुनः सख्यमभूत्तयोः| SP0310642: रागो जातिकृतो यश्च पूर्ववत्स बभूव ह|| ६४|| SP0310651: वामपादेन चाप्येनं क्षुपं स समताडयत्| SP0310652: पुनश्च वज्रमादाय स चैनमहनत्तदा| SP0310653: न चार्तिं न व्यथां तस्य तद्वज्रमकरोन्मुने|| ६५|| SP0310661: अवध्यत्वमथो ज्ञात्वा क्षुपस्तस्य महात्मनः| SP0310662: नारायणं समासाद्य वरार्थं समराधयत्|| ६६|| SP0310671: वरदो ऽस्मीति तुष्टेन विष्णुना स च चोदितः| SP0310672: प्रोवाच प्रणतो विष्णुमिदं व्यास महामनाः|| ६७|| SP0310680: क्षुप उवाच| SP0310681: दधीचो नाम विप्रर्षिरवध्यो ऽक्षय एव च| SP0310682: सखा मम हृषीकेश स च मामाह नित्यदा|| ६८|| SP0310691: बिभेम्यहं न देवस्य राक्षसस्यासुरस्य वा| SP0310692: पिशाचस्याथ यक्षस्य वयसो मानुषस्य वा| SP0310693: बिभेमीति यथा ब्रूयात्तथा त्वं कर्तुमर्हसि|| ६९|| SP0310701: एवमुक्तो नरेशेन स विष्णुर्लोकभावनः| SP0310702: तथास्त्विति च तं प्रोच्य दधीचस्याश्रमं ययौ|| ७०|| SP0310711: स प्रविश्याश्रमं व्यास दधीचेनाभिपूजितः| SP0310712: अभिवाद्याञ्जलिं कृत्वा दधीचमिदमब्रवीत्|| ७१|| SP0310721: भगवन्ब्राह्मणश्रेष्ठ पितामहसमद्युते| SP0310722: वरमेकं वृणे त्वत्तस्तद्भवान्दातुमर्हसि|| ७२|| SP0310731: प्रसादितो ऽहं विप्रेन्द्र क्षुपेण शुभकर्मणा| SP0310732: वरदो ऽस्मीति चाप्युक्तो वरं वव्रे महामुने| SP0310733: प्रोक्तं त्वया बिभेमीति ब्रूहि तन्मदनुग्रहात्|| ७३|| SP0310741: अभयं सर्वभूतेभ्यो ब्राह्मणस्य न संशयः| SP0310742: अवध्यश्चापि सर्वेषां महायोगबलान्वितः| SP0310743: अभीतस्त्वं तथाप्यद्य मदर्थं वद तत्प्रभो|| ७४|| SP0310751: दधीचस्त्वेवमुक्तो वै विष्णुना मधुरं तदा| SP0310752: उवाच न बिभेमीति भूयो भूयो जनार्दनम्| SP0310753: नाहं वक्ष्ये बिभेमीति नोक्तं नाप्युच्यते मया|| ७५|| SP0310760: सनत्कुमार उवाच| SP0310761: एवमुक्तश्चक्रपाणिश्च्यावनिं क्रोधमूर्छितः| SP0310762: उवाच चक्रमुद्यम्य भयमस्य विदर्शयन्|| ७६|| SP0310771: एवमेव हि कर्तव्या ये भूत्वा बलवत्तराः| SP0310772: अस्वामिन इव प्रेम्णा ब्रुवते दुर्बलं जनम्|| ७७|| SP0310781: न चेद्वक्ष्यसि भीतो ऽस्मीत्येतच्चक्रं ततस्तव| SP0310782: सुनसं मुखमादाय महीं संप्रापयिष्यति|| ७८|| SP0310790: च्यावनिरुवाच| SP0310791: किं वृथा चक्रमुद्यम्य त्वं विष्णो क्लेशमर्छसि| SP0310792: नाहं चक्रस्य ते गम्यः प्रसादात् त्र्यम्बकस्य तु|| ७९|| SP0310801: किं तु जिज्ञासया यामि लोकपालशरण्यताम्| SP0310802: तेषां निष्क्रियतां ज्ञात्वा ततो ध्यास्यामि शंकरम्|| ८०|| SP0310811: एवमुक्त्वा च्यावनिस्तु प्राद्रवद्वरुणं प्रति| SP0310812: शरणं तं प्रपन्नश्च स ददावभयं प्रभुः|| ८१|| SP0310821: तत्र विष्णोश्च देवस्य वरुणस्य च धीमतः| SP0310822: युद्धं समभवद्घोरं बहूनब्दान्विभीषणम्|| ८२|| SP0310831: निगृहीते तु वरुणे च्यावनिर्यममभ्यगात्| SP0310832: स चास्याभयदस्तस्मै विष्णुना निर्जितो युधि| SP0310833: ततो ऽग्निमभ्यगाद्व्यास सो ऽपि तेनाभिनिर्जितः|| ८३|| SP0310841: ततः स मुष्टिमादाय कुशानां च्यावनिः शुभम्| SP0310842: स्वमाश्रममुपागम्य तिष्ठ तिष्ठेत्यभाषत|| ८४|| SP0310851: जिज्ञासार्थं लोकपालानहं शरणमेयिवान्| SP0310852: अबलास्ते च सर्वे ऽपि मय्येव बलमुत्तमम्|| ८५|| SP0310861: अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम्| SP0310862: तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन|| ८६|| SP0310871: ततो युद्धं समभवत्तुमुलं लोमहर्षणम्| SP0310872: नारायणस्य च व्यास च्यावनेश्च महात्मनः|| ८७|| SP0310881: यान्यस्त्राणि शरा ये च नारायणकरच्युताः| SP0310882: योगेन तान्दधीचो ऽसौ कुशमुष्टौ न्यवेशयत्|| ८८|| SP0310891: ततो विष्णोर्योगबलाद्गात्रेभ्यः संप्रजज्ञिरे| SP0310892: देवा युयुधिरे सर्वे विष्णुना सह दंशिताः|| ८९|| SP0310901: तानप्यशेषतः सर्वान्सायुधान्सह वाहनैः| SP0310902: कुशमुष्टौ सुसंक्रुद्धो विष्णुवर्जं न्यवेशयत्|| ९०|| SP0310911: ततः सर्वामरैर्व्यास कुशमुष्टिं प्रवेशितैः| SP0310912: योगेन तेजसा चैव दधीचेन महात्मना|| ९१|| SP0310921: विष्णुं संविग्नरूपं तु कोपावेशात्प्रमोहितम्| SP0310922: तत्रागम्य स्वयं ब्रह्मा तदा वचनमब्रवीत्|| ९२|| SP0310931: किं तवानेन गोविन्द वृथा यत्नेन सद्द्विजे| SP0310932: कृतेनास्य दधीचस्य शर्वाल्लब्धवरस्य तु|| ९३|| SP0310941: किं न वेत्सि यथा ह्येष प्रसादात्परमेश्वरात्| SP0310942: अवध्यत्वं सुयोगित्वं गुणैश्वर्यत्वमेव च| SP0310943: वज्रास्थिसारतां चैव लब्धवान्स्वयमीश्वरात्|| ९४|| SP0310951: न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते| SP0310952: तस्मादाशु निवर्तस्व क्षमयैनं द्विजोत्तमम्|| ९५|| SP0310961: ततो ब्रह्मवचः श्रुत्वा स विष्णुर्लोकभावनः| SP0310962: योगेन तद्बलं ज्ञात्वा दधीचस्य च शंकरात्| SP0310963: क्षमयामास विप्रेन्द्रं स्वं चावासमथाभ्यगात्|| ९६|| SP0310971: ब्रह्मापि तमृषिं सान्त्व्य पूजयित्वा च लोकपः| SP0310972: जगामादर्शनं व्यास सह सर्वामरैस्तदा|| ९७|| SP0310981: दधीचो ऽपि महातेजास्तपस्तेपे स्वके ऽश्रमे| SP0310982: महादेवप्रसादार्थमुग्रं वाय्वम्बुभोजनः|| ९८|| SP0310991: अथास्य युक्तस्य तदा तपसा भास्करद्युतेः| SP0310992: तुतोष भगवांस्त्र्यक्षस्तुष्टश्चैवाब्रवीदिदम्|| ९९|| SP0311000: देव उवाच| SP0311001: च्यावने तपसानेन तव तुष्टो ऽस्मि सुव्रत| SP0311002: ब्रूहि यत्ते ऽभिलषितं कृतमेव हि तन्मया|| १००|| SP0311010: दधीच उवाच| SP0311011: भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे| SP0311012: इच्छामि विष्णुना सार्धं सर्वान्देवांस्त्वया जितान्|| १०१|| SP0311020: सनत्कुमार उवाच| SP0311021: ततः प्रहस्य वरदो दधीचमृषिसत्तमम्| SP0311022: एवमस्त्विति तं प्राह प्रणतार्तिहरो हरः|| १०२|| SP0311031: तस्मिन्दत्ते तदा तेन त्र्यम्बकेन वरे शुभे| SP0311032: अमन्यत स्थितं वैरं क्षुपेण सह वै ऋषिः|| १०३|| SP0311041: ध्यायन्तं तं तथा दृष्ट्वा भगवान्गोवृषध्वजः| SP0311042: उवाच वरमन्यच्च ब्रूहि विप्र ददानि ते|| १०४|| SP0311050: दधीच उवाच| SP0311051: यस्मात्स्थितमिदं वैरं वरदानात्तव प्रभो| SP0311052: इह तस्मात्तव स्थानं नाम्नैतेन भवत्वज|| १०५|| SP0311060: देव उवाच| SP0311061: स्थानेश्वरमिति ख्यातं नाम्नैतत्स्थानमुत्तमम्| SP0311062: भवितृ क्रोशपर्यन्तं नानापुष्पलताकुलम्|| १०६|| SP0311071: अत्र यो ऽभ्यर्चयेन्मां तु परं नियममास्थितः| SP0311072: त्रिरात्रोपोषितः सम्यक्स्नात्वा नद्यां तु मानवः|| १०७|| SP0311081: ब्राह्मणं भोजयित्वा च चरुं धर्मेण संयुतः| SP0311082: सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्|| १०८|| SP0311091: स्थाणुतीर्थं च भवितृ तवैव पापनाशनम्| SP0311092: अश्वमेधफलं ह्यत्र स्नातः प्राप्नोति पुष्कलम्|| १०९|| SP0311101: अयं चापि वटः श्रीमान्स्थितो ऽहं यत्र साम्प्रतम्| SP0311102: वरं दातुं मदाख्यातो नाम्ना स्थाणुवटो महान्| SP0311103: भविष्यति न संदेहः फलं चास्यापि मे शृणु|| ११०|| SP0311111: यो ऽत्र तिष्ठेदहोरात्रं वाग्यतो नियताशनः| SP0311112: चीर्णं वर्षं भवेत्तेन स्थाणुव्रतमनुत्तमम्|| १११|| SP0311121: सर्वपापविनिर्मुक्तो गणपः स भवेन्मम| SP0311122: अकम्पनो नाम महान्महायोगबलान्वितः|| ११२|| SP0311131: यश्च प्राणान्नियमवान्यमवानथवा पुनः| SP0311132: परित्यजेत मनुजस्तस्य पुण्यफलं महत्|| ११३|| SP0311141: सर्वपापविनिर्मुक्तः सर्वबन्धविवर्जितः| SP0311142: गणेश्वरो नन्दिसमः स मे भवति सर्वगः|| ११४|| SP0311151: स्थानेश्वरे यस्त्विदमेकरात्रं स्थित्वा क्षपेत्सर्वमशेषतो हि| SP0311152: स सर्वपापप्रविमुक्तचेता गणेश्वरो मे भवितातिभीमः|| ११५|| SP0319999: स्कन्दपुराण एकत्रिंशत्तमो ऽध्यायः||